शतकत्रयम् /125
This page has not been fully proofread.
२४
भर्तृहरिकृतं
अथवा हरचरणयोः संलग्नं यच्चित्तं तदेवैकशरणं येषां ते अथवा हरचरणयो-
श्चित्तं येषां ते शिवभक्तास्त एवैकं शरणं येषां ते तथाविधाः सन्तः पुण्ये
पुण्यकारकेऽरण्ये परिणताः परिणामं प्राप्ता ये शरदि चन्द्रकिरणास्तैः सहत्रि-
यामां रात्रिं नेष्यामः ॥ चन्द्रकिरणैः पुण्ये सुखदे अरण्ये इति वा संबन्धः
कर्तव्यः ॥ चन्द्रकिरणे इति सप्तम्यन्तपाठेऽरण्यविशेषणम् ॥ कीदृशा वयम् ॥
तरुणा या करुणा कृपा तया पूर्ण परिपूर्ण हृदयं येषां ते ॥ पुनः कीदृशाः ॥
अस्मिन्संसारे विगुणो विपरीतो यः परिणामः स्वरूपान्यथाभावः स एवावधिः सी-
मा यस्या एतादृशीं गतिमवस्थां स्मरन्तश्चिन्तयन्तः ॥ संसारस्य सदोषत्वं
सान्तत्वं च चिन्तयन्त इत्यर्थः ॥ " शिखरिणी वृत्तम्" ॥ ४८ ॥
मनःसंतोषस्यात्यन्तसुखहेतुत्वमिति राजानं प्रत्याह-
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ॥
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ ४९ ॥
वयमिति ॥ हे राजन् इह संसारे वयं वल्कलैः परितुष्टाः स्मः ॥ त्वं च
लक्ष्म्या परितुष्टोऽसि ॥ उभयोः परितोषः संतोषः समोऽस्ति ॥ इह उभयोः
संतोषयोर्मध्ये एकस्य निर्विशेषः ॥ भावप्रधानो निर्देशः ॥ यद्विशेषराहित्यं
स एव विशेषः ॥ तदेवोपपादयति यस्य तृष्णा विशाला विस्तीर्णा स तु द-
रिद्रो भवति ॥ मनसि परितुष्टे सति अर्थवान्धनवान्कः दरिद्रश्च कः न को-
पीत्यर्थः ॥ " मालिनी वृत्तम् ॥ ४९ ॥
यत्स्वच्छन्दवर्तनादिकं तन्महतस्तपसः फलमित्याह-
यदेतत्स्वच्छन्द विहरणमकार्पण्यमशनं
सहायैः संवासः श्रुतमुपशमै कव्रतफलम् ॥
मनो मन्दस्पन्दं बहिराप चिरस्यापि विमृश-
न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ५० ॥
यदेतदिति ॥ एषा उदारस्य महतः कस्य तपसः परिणतिः परिणाम ए-
तद् चिरस्य चिरकालं विमृशन्विचारयन्नप्यहं न जाने ॥ एषा का ॥ स्व-
च्छन्दं यथास्यात्तथा विहरणं विहारः वर्तनमिति यावत् ॥ स्वाच्छन्द्यविहरण-
मिति पाठे अर्शआद्यच् ॥ स्वाच्छन्द्यवत् स्वच्छन्दयुक्तमिति यावत् ॥ अकार्प-
Digitized by Google