Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
२३
 
तं स्फुरद्रूपं हसितं यस्मिन्कर्मणि यथा भवति तथा स्मरेयं स्मरामि ॥ कथमे-
ते वासरा अतिसुखदा अतीता वासरास्त्वतिदुःखदा इत्याश्चर्यपूर्वकं स्मरामी-
ति भावः ॥ कीदृशोऽहम् ॥ शिखरिणः पर्वतस्य कुहरं गुहा ॥ " कुहरं ग-
हरे छिद्रे इति मेदिनी" ॥ तस्मिन् ये ग्रावाणः पाषाणास्त एव शय्या त-
स्यां निषण्ण उपविष्टः ॥ " मन्दाक्रान्ता वृत्तम्" ॥ ४६ ॥
 
विद्यादिसंपादनमकुर्वतः परदत्तानेन जीवनं संपादयतो ममायुर्व्यर्थं गत-
मिति पश्चात्तापपूर्वकं वदन् विद्यादिसंपादनस्यावश्यकतां बोधयन्नाह—
विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषाऽपि समाहितेन मनसा पित्रोर्न संपादिता ॥
आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः ॥ ४७ ॥
 
विद्येति ॥ कलङ्करहिता दोषरहिता विद्या शास्त्रादिरूपा परमार्थसाधि-
केति यावत्, एवंविधा नाधिगता न प्राप्ता न संपादितेति यावत् । अस्माभिरि-
ति शेषः ॥ एवं सर्वत्र ॥ च पुनः वित्तं धनमपि नोपार्जितं न संपादितम्,
तथा समाहितेन स्वस्थेन मनसाऽन्तःकरणेन पित्रोर्माता च पिता च पितरौ
तयोः
शुश्रूषा सेवाऽपि न संपादिता न कृता, तथा आलोले चञ्चले आय
विस्तीर्णे लोचने नेत्रे यासां ता युवतयस्तरुणस्त्रियः स्वनेऽपि नालिङ्गिताः,
सांसारिकं सुखं किमपि नानुभूतमित्यर्थः ॥ किंतु अयं कालः काकैरिवास्मा-
भिः परपिण्डे अन्यदत्ताहारे लोलुपता लुब्धता तया प्रेरितः प्रक्षिप्तो नीत
इति यावत् ॥ परपिण्डोपजीवनेनातिवाहित इत्यर्थः ॥ "शार्दूलविक्रीडितं
वृत्तम्" ॥ ४७ ॥
 
संसारस्यातिदुःखदत्वं दृष्ट्वा तत्त्यागपूर्वकं वने स्थित्वा सुखदत्वाच्छिवचर-
णाराधनमेव कर्तव्यमित्याह-
 
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
 
स्मरन्तः संसारे विगुणपरिणामावधिगतिम् ॥
वयं पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणै-
 
त्रियामां नेष्यामो हरचरणचित्तैकशरणाः ॥ ४८ ॥
 
वितीर्णे इति ॥ वयं सर्वस्वे सर्वधने वितीर्णे दत्ते सति सर्वस्वदाने कृ-
ते सतीत्यर्थः ॥ हरस्य शिवस्य चरणावेव चित्तस्यैकं शरणं रक्षितृ येषां ते
 
Digitized by Google