शतकत्रयम् /123
This page has not been fully proofread.
२२
भर्तृहरिकृतं
आसंसारमिति ॥ हे तात तादृक् तादृशः स पुरुषः आसंसारं संसारं या-
वत् इदं त्रिभुवनं चिन्वतां मृगयतामस्माकं नयनपदवीं नेत्रमार्ग वा अथवा
श्रोत्रवर्त्म कर्णमार्ग नैवाऽऽगतोऽस्तीति शेषः ॥ स कः ॥ योऽयं
पुरुष: वि-
पय एव करिणी हस्तिनी तस्यां गाढो दृढो रूढो योऽभिमानस्तेन क्षीबस्य
मत्तस्यान्तःकरणमेव करी हस्ती तस्य संयम इन्द्रियनिग्रह एवाssलानं गज-
बन्धनं तस्य लीलां धत्ते धारयति ॥ मन्दाक्रान्ता वृत्तम्" ॥ ४४ ॥
66
शिवाराधनापूर्वकं गङ्गातीरनिवासादिकं सर्वे सोढव्यं न याचनाविशिष्टं
जीवनमिति सूचयन्नाह —
महादेवो देवः सारेदपि च सैवामरसरि-
गुहा एवागारं वसनमपि ता एव हरितः ॥
सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ४५ ॥
महादेव इति ॥ देव एको महादेव एव, सरिदपि सा प्रसिद्धा अमरसरि-
देव गङ्गेव, स्नानाद्यर्थमित्यर्थः ॥ अगारं गृहं गुहा एवं कन्दर्य एव, वसनं
वस्त्रमपि ताः प्रसिद्धा हरितो दिश एवं, वस्त्रराहित्येन निर्वाह इत्यर्थः ॥ सु-
हृन्मित्रं अयं प्रसिद्धः कालो वा काल एव, दयिता भार्याऽपि वटविटपो वट-
वृक्षशाखा सैवास्तु इदं सर्वे व्रतं नियमो न विद्यते दैन्यं याचनारूपं यस्मि -
नेतादृशं व्रतं भवति, याचनारहितं व्रतमित्यर्थः ॥ इदं कियद्वा वक्ष्यामो ऽपि तु
सर्वमुक्तमेवेत्यर्थः ॥ "शिखरिणी वृत्तम्" ॥ ४५ ॥
धनाढ्यादिसेवनापेक्षया वने स्थित्वा भगवदाराधनमेव वरमिति बोधयन्नाह-
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाऽल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ॥
तेषामन्तःस्फुरितहसितं वासराणां स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ ४६ ॥
ये वर्तन्त इति ॥ धनपतेर्धनाढ्यस्य पुरोऽग्रभागे प्रार्थना याचना तस्या
यद्दुःखं तद्भजतीति भाक् तस्य मम ये वासरा दिवसा वर्तन्ते स्मेति शेषः ॥
एवमुत्तरत्रापि ॥ ये च विषयैः कृत्वा य आक्षेपो भर्त्सनं तेन पर्यस्ता विपरी-
ता बुद्धिर्यस्य ममाल्पत्वं दधति स्म ॥ तेषां वासराणां तान् दिवसानित्यर्थः ॥
अहं ध्यानस्य छेदे विच्छेदे समाधेरुत्थाने सतीत्यर्थः ॥ अन्तरभ्यन्तरे स्फुरि-
Digitized by Google