शतकत्रयम् /122
This page has not been fully proofread.
वैराग्यशतकम् ।
२१
प्यमाना स्फारा वृद्धि प्राप्ता या ज्योत्स्ना चन्द्रिका तया धवलितं शुभ्रीभूतं
तलं यस्य तस्मिन् ॥ जले इति पाठे धवलितं जलं यस्मिन्नित्यर्थः ॥ एवंविधे
सरितो भागीरथ्याः पुलिने तटे सुखेनाssसीनाः स्थिताः तथा भवस्य सं-
सारस्य आभोगोऽतिशयेन सेवनं तेनोद्विग्नाः खिन्नाः अतएव शिवशिवशिवेति
आर्त दुःखकारकं वचो येषां ते तथाविधाः आनन्दस्योद्गमः प्रादुर्भावस्तेन
बहुलानि यानि बाष्पाणि नेत्राश्रूणि तैराकुले दृशौ नेत्रे येषां ते एतादृशा वयं
कदा स्याम भवाम ॥ [आर्तवचसेति तृतीयान्तपाठे ] वचसा करणभूतेने -
त्यर्थः ॥ [कदास्यामोहर्षोद्गमबहुलबाष्पप्लुतदृश इत्यपि कचित्पाठः] ॥ "शिख-
रिणी वृत्तम्" ॥ ४२ ॥
आशापरित्यागस्य दुस्त्यजत्वं नदीरूपकेण वर्णयन् तत्त्यागस्यात्यन्तं सुख-
हेतुत्वमाह-
आशानामनदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रमध्वंसिनी ॥
मोहावर्त सुदुस्तराऽतिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥४३॥
आशेति ॥ मनोरथोऽभिलाष एव जलं यस्यां सा, तथा तृष्णास्तर्षा :
पिपासा इति यावत् ॥ " तृष्णा स्यात्तर्षलिप्सयोरिति मेदिनी" तरङ्गास्तैराकु-
ला व्याप्ता, तथा । रागा अनुरागा एव ग्राहा मकरादयो विद्यन्ते यस्यां सा ॥
तथा वितर्का एव विहगाः पक्षिणो यस्यां सा, तथा धैर्यरूपो द्रुमो वृक्षस्तस्य
ध्वंसिनी नाशिनी, तथा मोहा एवाssवर्ता जलभ्रमास्तैः सुदुस्तरा तर्तुमशक्या,
तथा अतिगहना अत्यन्तं गम्भीरा, प्रकर्षेणोतुङ्गोलता या चिन्ता सैव तटं
यस्याः सा एवंविधा आशानाम नदी अस्ति तस्याः पारं गताः, तथा विशु-
द्धं मनो येषां ते तथाविधा योगीश्वरा नन्दन्ति हर्षं प्राप्नुवन्तीत्यर्थः ॥ आशा-
त्यागिनः पुरुषा अत्यन्तसुखानुभववन्तो भवन्तीति भावः ॥ " शार्दूलविक्री -
डितं वृत्तम्" ॥ ४३ ॥
मनोनियमनकर्तुः पुरुषस्य दौर्लभ्यं दर्शयन्नाह -
आसंसारं त्रिभुवनमिदं चिन्वतां तात ताह-
जैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ॥
योऽयं धत्ते विषय करिणीगाढरूढाभिमान-
क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ४४ ॥
Digitized by Google