Proofing

This page has not been fully proofread.

२०
 
भर्तृहरिकृतं
 
कुर्मः किम् ॥ उताथवा गुणैरुदारान्प्रौढान् दारान्स्त्रियः सविनयं नम्रतापूर्वकं
परिचयाम आश्रयामः, गृहे स्थित्वा गृहस्थाश्रमधर्ममेवाचराम इत्यर्थः ॥
अथवा शास्त्रौघान् वेदान्तादिशास्त्र समूहान् पिबाम सेवामहे इति यावत् ॥ उत
विविधानि काव्यानि तान्येवामृतरसास्तान्वा पिबाम इति ॥ " शिखरिणी
वृत्तम्" ॥ ३९ ॥
 
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ॥
 
तृणे वा स्त्रैणे वा मम समदृशो यांतु दिवसाः
सदा पुण्येऽरण्ये शिवशिवशिवेति प्रजपतः ॥ ४० ॥
अहाविति ॥ अहो सर्पे वा हारे पुष्पादि त्रजि वा, बलवति बलिष्ठे
रिपौ शत्रौ वा सुहृदि मित्रे वा, मणौ हीरकादौ वा लोष्टे मृत्खण्डे वा,
कुसुमशयने पुष्पपर्यङ्के वा, दृषदि पाषाणे वा, तृणे वा स्त्रैणे स्त्री समूहे वा समदृशः
समानदृष्टेः सदा पुण्ये पुण्यकारकेऽरण्ये वने शिवशिवशिवेति प्रजपतो जपं
कुर्वतो मम दिवसा यान्तु गच्छन्तु ॥ " शिखरिणी वृत्तम् " ॥ ४० ॥
गङ्गातीरं हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ॥
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ४१ ॥
 
गङ्गातीरे इति ॥ गङ्गातीरे भागीरथीतीरे हिमगिरेः शिलायां बद्धं पद्मा-
सनं येन तस्य ब्रह्मध्यानस्याभ्यसनमभ्यासस्तस्य विधिर्विधानं तेन योगनिद्रां स-
माधिं गतस्य प्राप्तस्य मम तैः सुदिवसैः भाव्यं किं ते सुदिवसा भविष्यन्ति
किम् ॥ यत्रयेषु दिवसेषु ते जरठहरिणा वृद्धमृगा निर्विशङ्का भयरहिताः
सन्तो मदीयेऽङ्गे शृङ्गं कण्डूयन्ते घर्षणसुखं कुर्वन्ति ॥ यस्यां मृगैः क्रियमाणं
कण्डूयनमपि न ज्ञायते तादृशी समाधिर्मम कदा भविष्यतीत्यर्थः ॥ " मन्दा-
क्रान्ता वृत्तम्" ॥ ४१ ॥
 
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु सरितः ॥
भवाभोगोद्विग्ना शिवशिवशिवेत्यार्तवचसः
 
कदा स्यामाऽऽनन्दोन मबहुलबाप्पा कुलदृशः ॥ ४२ ॥
 
स्फुदिति ॥ शान्तो ध्वनिर्यासु एवंविधासु रजनीषु रात्रिषु स्फुरन्ती देदी-
 
Digitized by Google