Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
१९
 
याऽवस्था तां गताः प्राप्ताः स्म ॥ वालुकामयनदीतीरसंबन्धिनो वृक्षा यथा
विनाशोन्मुखास्तथा वयमपि विनाशोन्मुखा जाता इत्यर्थः ॥ " शिखरिणी वृ-
 
त्तम्" ॥ ३७ ॥
 
पुत्रादिपरिवारसहवासस्यापि कालवशेनानियतत्वात्तद्विषयेऽप्यास्था नवि-
 
धेयेति सूचयन्नाह—
 
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनुबहवस्तत्र चान्ते न चैकः ॥
इत्थं चेमी रजनिदिवसौ दोलयन्वापि चाक्षौ
 
कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ ३८ ॥ -
यत्रानेक इति ॥ यत्र कचिदपि गृहे अनेकः पुत्रदारादि कालवशेन तत्रैक
एव तिष्ठति अथानन्तरं यत्राप्येकस्तदनुत्रहवः भवन्तीति शेषः ॥ तत्र चान्ते
एकोऽपि न ॥ इत्थं अनेन प्रकारेण बव्ह्यः कलानिमेषादयो यस्मिन् यद्वा
बहून्विषयान्कलयति स्वेच्छानुरोधेन संपादयतीति बहुकलः । एतादृशः काल
इमौ प्रसिद्धौ रजनी रात्रिः दिवसो दिनं च तावेव अक्षौ पाशको "अक्षास्तु
देवनाः पाशकाश्चेत्यमरः" ॥ दोलयन्प्रक्षिपन् सन् काल्या स्वस्त्रिया मारकश-
क्त्या सह प्राणिन एव शाराः काष्टादिरचितद्यूतोपकरणविशेषाः (सोंगटी
इति ख्याताः ) "शारः स्याच्छबले वाच्य लिंगः पुंसि समीरणे ॥ अक्षोपक-
रणे इति मेदिनी " ॥ तैः क्रीडति क्रीडां करोति ॥ "मन्दाक्रान्ता वृत्तम्-
मन्दाक्रान्ता जलधिषडगैर्भीनतो ताद्गुरू चेति तल्लक्षणात् ॥ ३८॥
 
अत्यल्पायुषि अस्मिन्लोके अवश्यकर्तव्यकर्मणां बहुत्वेन कर्तुमशक्यत्वाकि
कर्तव्यमिति संदिहानो विचारं कुर्वन् तपस एवात्यन्तसुखहेतुत्वमिति स्वयमेव
निर्णीय तस्यैवावश्यकर्तव्यतामभिप्रेत्याह तपस्यन्त इत्यादिश्लोकचतुष्टयेन-
तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचयामः स विनयम् ॥
पिबामः शास्त्रौघात विविधकाव्यामृतरसा-
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ३९ ॥
 
तपस्यन्त इति ॥ वयं कतिपया निमेषा आयुर्यस्य तस्मिन् एतादृशे अ-
स्मिन् जने लोके किं कुर्म इति न विद्मः ॥ इति किम् ॥ तपस्यन्तस्तपश्चर्या
कुर्वन्तः सन्तः सुरनदी भागीरथीमधि तत्तीरे इति यावत् ॥ निवसामो वासं
 
Digitized by Google