Proofing

This page has been fully proofread once and needs a second look.

<page>
<subtitle>
अथ भर्तृहरिकृतं
</subtitle>
<title>
नीतिशतकं प्रारभ्यते ।
 
H
 
</title>
<verse>
भक्तचित्तानुरोधेन धत्ते नानाकृतीः स्वयम् ।

अद्वैतानन्दरूपो यस्तस्मै भगवते नमः ॥ १ ॥
</verse>
<verse>
गोदावाक्तटवर्तिनासिकमहाक्षेत्रे पवित्रे वसन्

बालंभट्टतनूभवोजननभूर्लक्ष्मीर्यदीया सती ।

तेनेयं विवृतिर्महाबलपराभिख्येन कृष्णेन हि

श्रीमद्भर्तृहरिप्रणीतशतकत्रय्याः कृता यत्नतः ॥ २ ॥
</verse>
<verse>
अर्थद्योतनका भूयाद्विदुषां प्रीतयेऽनिशम् ।
 

एवात्र विचिन्वन्तु गुणदोषौ विमत्सराः ॥ ३ ॥
 
</verse>
<p>
इह खलु राजर्षिप्रवरः श्रीभर्तृहरिरुभयलोकसाधकं नीतिशृङ्गारवैराग्याख्य-

शतकत्रयात्मकं ग्रन्थं चिकीर्षुः "सदाचरणस्य नीतिज्ञानपूर्वकत्वात्तज्ज्ञानाय

प्रथमं नीतिशतकमारभमाणः " प्रारिप्सितस्य ग्रन्थस्याविघ्नतासिद्धये 'नमस्का-

रात्मकं' मङ्गलमाचरति -
 
--</p>
<verse>
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ॥
 

स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १॥
 
</verse>
<p>
दिगिति ॥ दिग्दिशा ॥ कालो भूतादिः ॥ आदिशब्देन देशवय आदि ॥

दिक्च कालश्च तावादी येषां देशवयआदीनां तैरनवच्छिन्नाऽव्याप्ताऽतए-

वानन्ता चिन्मात्रा चिद्रूपा मूर्तिर्देहो यस्य तस्मै, शान्ताय शान्तस्वरूपाय,

तेजसे प्रकाशरूपाय, भगवते ब्रह्मणे नमोऽस्तु ॥ ननु यं नमसि तदस्तित्व -

विषये किं मानं तत्र हेतुगर्भं विशेषणमाह स्वानुभूत्येकमानायेति ॥ स्वस्यानु-

भूतिरनुभवः यद्वा स्वा स्वकीयाऽनुभूतिः सैबैवैकं मानमस्तित्वज्ञापकं यस्य तस्मै ॥

अस्मिन् शतकत्रये दृष्टेषु बहुषु पुस्तकेषु क्वचिच्छ्रोलोकानां पूर्वापरभावव्यत्ययस्त-

था परस्परमिश्रीभावश्च दृश्यते तद्विचारोऽत्र न कृतः स सुधीभिर्विचारणीयः ॥

"अनुष्टुब् वृत्तम्" ॥ १ ॥
 
Di
</p>
</pa
gitized by Google
 
e>