शतकत्रयम् /12
This page has not been fully proofread.
अथ भर्तृहरिकृतं
नीतिशतकं प्रारभ्यते ।
H
भक्तचित्तानुरोधेन धत्ते नानाकृतीः स्वयम् ।
अद्वैतानन्दरूपो यस्तस्मै भगवते नमः ॥ १ ॥
गोदावाक्तटवर्तिनासिकमहाक्षेत्रे पवित्रे वसन्
बालंभट्टतनूभवोजननभूर्लक्ष्मीर्यदीया सती ।
तेनेयं विवृतिर्महाबलपराभिख्येन कृष्णेन हि
श्रीमद्भर्तृहरिप्रणीतशतकत्रय्याः कृता यत्नतः ॥ २ ॥
अर्थद्योतनका भूयाद्विदुषां प्रीतयेऽनिशम् ।
तएवात्र विचिन्वन्तु गुणदोषौ विमत्सराः ॥ ३ ॥
इह खलु राजर्षिप्रवरः श्रीभर्तृहरिरुभयलोकसाधकं नीतिशृङ्गारवैराग्याख्य-
शतकत्रयात्मकं ग्रन्थं चिकीर्षुः "सदाचरणस्य नीतिज्ञानपूर्वकत्वात्तज्ज्ञानाय
प्रथमं नीतिशतकमारभमाणः " प्रारिप्सितस्य ग्रन्थस्याविघ्नतासिद्धये 'नमस्का-
रात्मकं' मङ्गलमाचरति -
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ॥
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १॥
दिगिति ॥ दिग्दिशा ॥ कालो भूतादिः ॥ आदिशब्देन देशवय आदि ॥
दिक्च कालश्च तावादी येषां देशवयआदीनां तैरनवच्छिन्नाऽव्याप्ताऽतए-
वानन्ता चिन्मात्रा चिद्रूपा मूर्तिर्देहो यस्य तस्मै, शान्ताय शान्तस्वरूपाय,
तेजसे प्रकाशरूपाय, भगवते ब्रह्मणे नमोऽस्तु ॥ ननु यं नमसि तदस्तित्व -
विषये किं मानं तत्र हेतुगर्भ विशेषणमाह स्वानुभूत्येकमानायेति ॥ स्वस्यानु-
भूतिरनुभवः यद्वा स्वा स्वकीयाऽनुभूतिः सैबैकं मानमस्तित्वज्ञापकं यस्य तस्मै ॥
अस्मिन् शतकत्रये दृष्टेषु बहुषु पुस्तकेषु कचिच्छ्रोकानां पूर्वापरभावव्यत्ययस्त-
था परस्परमिश्रीभावश्च दृश्यते तद्विचारोऽत्र न कृतः स सुधीभिर्विचारणीयः ॥
"अनुष्टुब् वृत्तम्" ॥ १ ॥
Digitized by Google