शतकत्रयम् /119
This page has not been fully proofread.
१८
भर्तृहरिकृतं
किमिव नापकृतं अपि तु सर्वमपकृतमेवेत्यर्थः ॥ बत इति खेदे यावत्संपूर्ण किं
कुत्सितं पुनरपि तदेव व्यवसितं कृतम् ॥ अपकारबुद्ध्या किमपि न व्यक्त-
मित्यर्थः ॥ " शिखरिणी वृत्तम् ," ॥ ३५ ॥
कालवशेन विनाशं प्राप्नुवतामचिरस्थायिनां राज्ञां सेवनादि विहाय भग-
वत्सेवनमेव कर्तव्यमिति सूचयन्नाह -
भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च त-
त्पार्श्वे तस्य च साऽपि राजपरिषत्ताश्चन्द्रबिम्बाननाः ॥
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपदं कालाय तस्मै नमः ॥ ३६ ॥
भ्रातरिति ॥ हे भ्रातरिति सुहृद्भावेन संबोधनम् ॥ यः पूर्व दृष्टोऽस्मा-
भिः स एव महान् नृपतिः राजा, तस्य पार्श्वे तदेव सामन्तचक्रं मांडलिकरा-
जमण्डलम्, साऽपि सैव राजपरिषद्राजसभा, चन्द्रबिम्बवदाननं यासां ता-
स्ता एव स्त्रियः, उद्रिक्त उन्मत्तः स एव राजपुत्रनिवहो राजपुत्रसमूहः, त-
एव बन्दिनस्तुतिपाठकाः, ता एव कथा गोष्ठयः, एतत्पूर्वोक्तं सर्वं यस्य
कालस्य वशात्स्मृतिपदं स्मरणमार्गमगात् कथाशेषं जगामेत्यर्थः ॥ अहो कष्टम्
तस्मै कालाय नमोऽस्तु ॥ "शार्दूलविक्रीडितं वृत्तम् " ॥ ३६ ॥
,
यस्य स्वीयदेहस्य रक्षणार्थं राजादिसेवनं विधीयते तस्य देहस्यापि
विनाशित्वात्तद्विषयेऽप्यास्थां विहाय भगवदाराधने यत्नो विधेय इत्यभिप्राय-
वानाह—
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ॥
इदानीमेते स्म प्रतिदिवसमासन्नपतना-
द्वतास्तुत्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ३७ ॥
वयमिति ॥ वयं येभ्यः पित्रादिभ्यो जातास्ते चिरं चिरकालेन परिगता
नष्टाः मृता एवेत्यर्थः खलु निश्चयेन ॥ यैः भ्रात्रादिभिः समं सह संवृद्धा वृद्धिं
प्राप्तास्तेऽपि स्मृतिविषयतां स्मृतिगोचरतां गमिताः प्रापिताः ॥ कालेनेति शे-
षः ॥ इदानीमस्मिन्काले एते वयं प्रतिदिवसं दिवसं दिवसं प्रति आसन्नं
समीपप्राप्तं यत् पतनं मृत्युः तस्माद्धेतोः सिकता वालुका विद्यते यस्यां सा
सिकतिला एतादृशी या नदी तस्यास्तीरसंबन्धितरुभिर्वृक्षैस्तुल्या समाना-
Digitized by
Google