Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
हरिणैर्मृगैः सह परिचयः संबन्धः फलैर्बन्यफलैर्मेध्या पवित्रा वृत्तिजीविका,
दृषदः पाषाणाः प्रतिदिवसं तल्पानि शय्याः, इति अनेन प्रकारेणेयं हरस्य
शिवस्य भक्ति स्पृहयतामिच्छतां उपशान्तं रागादिरहितमेकं केवलं मनो येषां
तेषां पुरुषाणां सामग्री परिकरो भवति अतस्तेषां वनमरण्यं गेहं गृहं वा सदृशं
तुल्यमस्तीति शेषः ॥ " वृत्तं पूर्वोक्तमेव " ॥ ३३ ॥
 
आशुविनाशिनां प्राणानां रक्षणार्थ राजादीनामग्रे स्वगुणख्यापनादिकम-
नुचितमिति सूचयन्नाह -
 
अमीषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ॥
यदाख्यानामग्रे द्रविणमदनिःशङ्कमनसां
 
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ३४ ॥
अमीषामिति ॥ विगतो विवेको येषां तैरस्माभिः बिसिन्याः कमलिन्याः
पत्रेषु पयो जलं तुलितं बिसिनीपत्रपयो येषां तेषां अचिरस्थायिनामित्यर्थः ॥
एवंविधानां अमीषां प्राणानां कृते प्राणरक्षणार्थमित्यर्थः ॥ किं न व्यवसि-
तं न कृतम् ॥ अपि तु सर्वमेव कृतमेवेत्यर्थः ॥ यद्यस्मात् द्रविणस्य धनस्य
मदेन गर्वेण निःशङ्कं मनो येषां तेषामाढ्यानां धनिकानामग्रे वीता गता त्री-
डा लज्जा येषां तैरस्माभिर्निजगुणानां स्वकीयगुणानां कथाकथनं तद्रूपं यत्पा-
तकं तदपि कृतमिति ॥ 66 शिखरिणी वृत्तम् " ॥ ३४ ॥
 
सततमात्मापकारजनकमेव कर्म कुर्वतः पुरुषस्य पश्चात्तापपूर्वको त्तत्यनुवादेन
आत्मसुखजनकमेव कर्म सदा कर्तव्यमिति सूचयन्नाह—
 
अनावर्ती कालो व्रजति स वृथा तन्न गणितं
दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः ॥
कियड्याचक्षामः किमिव बत नात्मन्यपकृतं
किमस्माभिर्यावत्पुनरपि तदेव व्यवसितम् ॥ ३५ ॥
 
अनावर्तीति ॥ न आवर्तते न परावर्तते तच्छीलोऽनावर्ती पुनः परावर्तनर-
हित इति यावत्, एवंविधः कालः स वृथा निष्फलो व्रजति गच्छति तन्न
गणितम् ॥ तथा व्यसनानां शतानि तेषां संपातः पतनं तेन
 
विधुरा वि-
कलाः ॥ विधुरं विकले त्रिष्विति त्रिकाण्डशेषः ॥ तास्तादशाः सोढा म-
षिताः ॥ कियत् व्याचक्षामः कियद्ब्रूमः ॥ अस्माभिरात्मनि खस्मिन् विषये
 
Digitized by Google