Proofing

This page has not been fully proofread.

१६
 
भर्तृहरिकृतं
 
युक्तं केवलमेतदव सुधियां यज्जहुकन्यापयः-
पूतप्रावगिरीन्द्रकन्दरदरीकुञ्ज निवासः क्वचित् ॥ ३१ ॥
 
मान इति ॥ माने ग्लायिनि गलिते सति, वसुनि द्रव्ये खण्डिते नष्टे
सति, अर्धिनि याचके व्यर्थे सत्काररहितं यथास्यात्तथा प्रयाते गते सति,
बन्धुजने क्षीणे सति, परिजने परिवारे गते सति, यौवने तारुण्ये शनैर्मन्दं
मन्दं नष्टे सति सुधियां केवलमेतदेव युक्तं योग्यम् ॥ एतत्किम् ॥ जह्रुक-
न्याया भागीरथ्याः पयसा पूताः पवित्रा ग्रावाणः पाषाणा यस्मिन्नेवंविधो
गिरीन्द्रो हिमालयस्तस्य कन्दरो विवरम् ॥ "कन्दरोऽङ्कुरे ॥ विवरे च गुहायां
चेति मेदिनी " ॥ तस्मिन् या दरी गुहा तस्यां कुञ्जो लतापिहितप्रदेशस्त-
स्मिन् कचिन्निवासो वसतिरिति यत् ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥३१॥
क्लेशबहुलेतरधनिकचेतःप्रसादकरणापेक्षया खखान्तः प्रसन्नताकरणमत्यन्त-
सुखप्राप्तिकरमिति स्वचित्तं प्रति बोधयतः कस्यचिदुक्तिमनुवदन्नाह-
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
 
66
 
प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम् ॥
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे
 
विमुक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ ३२ ॥
 
परेषामिति ॥ हे हृदय, हे मनः परेषामन्येषां चेतांसि प्रतिदिवसं दिवसं-
दिवसं प्रति बहुधा बहुप्रकारेणाऽऽराध्य संसेव्य प्रसादं प्रसन्नतां नेतुं प्राप्तं क्लेश-
रूपकलिलं गहनं दुःखमरण्यं वेति यावत् ॥ किं विशसि प्रविशसि । स्वयं
उदिताः प्रादुर्भूताश्चिन्तामणेर्गुणा यस्मिन्नेवंविधे त्वयि अन्तरभ्यन्तरे प्रसन्ने
सति विमुक्तस्त्यक्तः संकल्पः तेऽभिलषितमिच्छितं किं न पुष्यति अपि तु
सर्व पुष्यत्येवेत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ३२॥
 
प्रसन्नमनसां शिवभक्तिं कुर्वतां पुरुषाणां कदापि दुःखं न भवति किंतु
सर्वदा सुखमेव भवतीति सूचयन्नाह -
 
स्थितिः पुण्यारण्ये सह परिचयो हन्त हरिणैः
फलैर्मेध्या वृत्तिः प्रतिदिवसतल्पानि दृषदः ॥
 
इतीयं सामग्री भवति हरभक्तिं स्पृहयतां
 
वनं वा गेहं वा सदृशमुपशान्तैकमनसाम् ॥ ३३ ॥
 
स्थितिरिति ॥ पुण्यारण्ये पुण्यकारकवने स्थितिः स्थानम्, हन्तेति हर्षे ॥
 
Digitized by Google