शतकत्रयम् /116
This page has not been fully proofread.
वैराग्यशतकम् ।
१५
महान्तं गर्वे वहां केनापि प्रकारेण भगवदननुगृहीतानां जन्मनः सर्वथा वैफल्य-
मिति भावः ॥ " शिखरिणी वृत्तम्
113411
कस्यचिन्निःस्पृहस्य राज्ञा सह संवादमुखेन स्वसाम्यं वदतः पथिकस्य वृ-
त्तान्तं वर्णयन् राजसेवनस्यातितुच्छत्वं सूचयन्नाह
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं
शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं पाटवं नः ॥
सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा-
मय्यप्यास्था न चेत्सा त्वयि मम सुतरामेष राजन् गतोऽस्मि २९
अर्थानामिति ॥ हे राजन् स्वमर्थानां द्रव्याणामीशिषे ईशिताऽसि वयमपि
च गिरां वाणीनामीश्महे ईशितारः स्मः ॥ यावत्संपूर्णमित्थमनेन प्रकारेणास्ति ॥
त्वं शूरः शत्रुजये समर्थोऽसि ॥ नोऽस्माकं च वादिनां प्रतिपक्षिणां दर्पज्वरो -
Sहंकारतापस्तस्य शमनविधौ नाशनविधौ अक्षयं निश्चलं पाटवं पटुत्वमस्ति ॥
वादिविजये वयं शूरा इत्यर्थः ॥ धनान्धा धनप्राप्त्यर्थे किं कर्तव्यं किं न
कर्तव्यमिति विवेकशून्यास्त्वां सेवन्ते ॥ मतेर्बुद्धेर्मलः कालुष्यं तस्य हतये
नाशाय श्रोतुकामा उपनिषदादि श्रोतारो मामपि सेवन्ते इति संबन्धः ॥ एवं
सत्यपि यदि मय्यपि तवाssस्था न चेत्तर्हि ममाऽपि त्वयि सुतरां सा नास्ति,
हे राजन् एषोऽहं गतोऽस्मि ॥ एवं साम्योद्भावनं कुर्वता गच्छता निःस्पृहेण-
पथिकेनेव केनाऽपि पुरुषेणातिगहना राजसेवा न कार्याऽतितुच्छत्वात्कि तु
भगवद्भजनमेव कर्तव्यमिति भावः ॥ स्रग्धरा वृत्तम् " ॥ २९ ॥
दुर्वृत्तराजादिसेवनेन जीवनापेक्षया भिक्षाशनादिना जीवनं वरमिति
सूचयन् कस्यचिद्वैराग्यवत उक्तिमाह-
66
अशीमहि वयं भिक्षामाशावासो वसीमहि ॥
शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३० ॥
अशीमहीति ॥ वयं भिक्षामेवाशीमहि भुञ्जामहे, आशा दिगेव वासो वस्त्रं
वसीमहि परिदध्महे, महीपृष्ठे पृथ्वीतले शयीमहि खपामः, ईश्वरैरैश्वर्ययुक्तैः पुरु-
बैः किं कुर्वीमहि किं कुर्महे ॥ प्रयोजनाभावादित्यर्थः ॥ "अनुष्टुब्रू वृत्तम्"॥३०॥
इह संसारे सुखहेतुभूतानां मानादीनां नाशे सति पुनस्तत्संपादने यत्नम-
विधाय गङ्गया विराजमाने हिमालयकुजे निवास एवं विधेय इत्याह-
माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ॥
Digitized by Google