Proofing

This page has not been fully proofread.

१४
 
भर्तृहरिकृतं
 
इदानीं तु प्रेक्ष्य क्षितितलभुजः शास्त्रविमुखा-
नहो कष्टं सापि प्रतिदिनमधोधः प्रविशति ॥ २७ ॥
 
पुरेति ॥ पुरा पूर्व विद्वत्ता, उपशमः शान्तिरस्त्येषां तेषां आसीत् ॥
[ अमलिनधिया ] मिति पाठे न मलिना कामक्रोधादिना कलुषिता धीर्बुद्धिर्येषां
तेषामित्यर्थः ॥ क्लेशस्य संसारजन्यदुःखस्य हतिर्नाशस्तस्यै आसीत् ॥ संसारदुः-
खनाशसमर्थाऽऽसीदित्यर्थः ॥ असावेव कालेन गता प्राप्ताऽपि सती विषयिणां
विषयसंबन्धि यत्सुखं तस्य सिद्धयै आसीत्, विषयसुखसिद्धिप्रदैवासीदित्यर्थः॥
इदानीं तु वर्तमानकाले तु क्षितितलं भुञ्जन्ति तान् क्षितितलभुजो राज्ञः, [क्षि-
तिलवभुज ] इति पाठे क्षितेः पृथिव्या लवं लेशं एकदेशमिति यावत् ॥ भुञ्जन्ति
तानित्यर्थः ॥ शास्त्रविमुखान् शास्त्रपराङ्मुखान् प्रेक्ष्य दृष्ट्वा साऽपि विद्वत्ता
प्रतिदिनमहरहः अधोधः प्रविशति गच्छति ॥ अत्यन्तनीचस्थितिं प्राप्तेत्यर्थः ॥
इत्यहो कष्टम् ॥ विद्यायाः समूलोच्छेददशामालोच्य तद्रक्षणविषये पुरुषेण
यत्नोऽवश्यं विधेय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ २७ ॥
 
जन्मप्रभृति मरणपर्यन्तं श्रद्धापूर्वकं भगवदाराधनं कुर्वतां पुरुषाणामेव
जन्मसाफल्यं नेतरेषामिति सूचयन्नाह -
 
सकः,
 
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योचैर्विनिहितमलङ्कारविधये ॥
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
 
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ २८ ॥
 
स जात इति ॥ स पुरुषः कोऽपि जात उत्पन्न आसीत् ॥ सफलजन्मेत्यर्थः ॥
यस्य धवलं शुभ्रं कपालं शिरोऽस्थि मदनस्य कामस्य रिपुः शिवस्तेन
अलङ्कारस्य भूषणस्य विधिर्विधानं तस्मै अलंकरणायेति यावत् उच्चैरुन्नतं
यथा स्यात्तथा मूर्ध्नि विनिहितं धृतम् ॥ अधुना सांप्रतं प्राणस्य त्राणे त्राणाय
वा प्रवणा नम्रा मतिर्येषां तैरतएव नमद्भिर्नमस्कारं कुर्वद्भिः अन्यैर्जातैः कै-
चिन्नृभिर्हेतुभिः पुंसां इतरजननमनेन सन्तुष्यतां पुरुषाणामयं प्रत्यक्षतोऽनुभू-
यमानः अतुलोऽनुपमो दर्पज्वरो गर्वतापस्तस्य भरोऽतिशयः कः आत कुत्सितः
व्यर्थ इति यावत् ॥ जन्मारभ्य मरणपर्यन्तं श्रद्धापूर्वकं भगवदाराधनमेव कु-
तां तेन तुष्यता भगवता तेषामेव कस्यचिदवयवस्य शिरसा धारणेनानुगृ-
हीतानामेव जन्मसाफल्यं तदितरेषां कतिपयजननमनमात्रेण संतुष्यतां तेनैव
 
Digitized by Google