शतकत्रयम् /114
This page has not been fully proofread.
वैराग्यशतकम् ।
१३
लयितो वेष्टितोऽस्तीति शेषः ॥ [परिवृत] इति पाठेऽपि स एवार्थः ॥ ननुइति
वितर्के अयं अणुरल्पोऽस्ति न त्वपरिच्छिन्नः ॥ स एव संयुगशतैः संग्रामशते-
रङ्गीकृत्य स्वीकृत्य राज्ञां गणैः समूहैर्भुज्यते ॥ [ भागीकृत्य तमेव संयुगशतै राज्ञां
गणा भुञ्जते ] इति पाठे संयुगशतैस्तमेव भागीकृत्य विभागं कृत्वा राज्ञां गणाः
समूहा भुञ्जते इत्यर्थः ॥ ते राजानः पूर्वं नो दद्युरथवेदानों किमपि यत्किंचिद-
दते अतएव क्षुद्रास्तुच्छा दरिद्राः कृपणाः सन्ति । तथापि ये पुरुषास्तेभ्यो-
ऽपि धनकणान्द्रव्यलेशान्वाञ्छन्ति ॥ [ धनलव ] मित्यपि पाठः ॥ तान्पुरुषा-
धमान्पुरुषापसदान् धिग् धिगिति ॥ धिग्योगे द्वितीया ॥ ते पुरुषा अतिनिन्द्या
इत्यर्थः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ २५ ॥
विद्वदवमानिनः केवलं नटादिसत्कारकारिणः कुत्सितस्य राज्ञः सेवाया
अत्यन्तानौचित्यमिति सूचयन्नाह—
न नटा न विटा न गायना न परद्रोहनिबद्धबुद्धयः ॥
नृपद्मनि नाम के वयं कुचभारानमिता न योषितः ॥ २६ ॥
नेति ॥ वयं नटाः शैलूषा न ॥ "शैलालिनस्तु शैलूषा" इत्युपक्रम्य " भरता
इत्यपि नटा इत्यमरः" ॥ विटा जाराः परस्त्रीवशीकरणे समर्था इति यावत् ॥
"वेश्यापतिर्भुजङ्गः स्याद्विट: पाल्लुविकः स्मृत इति हलायुधः " गायना गा-
यन्ती ते गायना गानकर्तारः "ण्युट् चेति कर्तरि ण्युट् " परेषां द्रोहे निबद्धा
बुद्धिर्येषां ते न ॥ [ न च सत्येतरपक्षपातिन] इति पाठे सत्यादितरदसत्त-
स्मिन्पक्षपातोऽस्त्येषां ते असत्पक्षपातिन इति यावत् ॥ कुचभारेण स्तनभारेण
नमिता नम्रा योषितः स्त्रियोऽपि न, [स्तनभारोन्नमिता ] इत्यपि पाठः ॥
अतो नृपसद्मनि राजगृहे उक्तानामेतेषां मध्ये वयं के न केऽपीत्यर्थः ॥ कथ-
मपि न मानार्हा इत्यर्थः ॥ यत्र राज्ञः सभायां नटादीनामेव संमानार्हत्वं न
विदुषां तस्य राज्ञ आराधनमस्मादृशामनुचितमिति भावः ॥ "वैतालीयं वृत्तम् ॥
षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्रपराश्रिताकला
वैतालीयेऽन्ते रलौ गुरुरिति ॥ २६ ॥
कालवशेन विद्याया उत्तरोत्तरं ह्रासं वर्णयन् मूर्खराजसेवाविषये परमादर-
मविधाय संसारोच्छेदहेतुभूतां विद्यामेव संपादयेदिति सूचयन्नाह -
पुरा विद्वत्ताssसीदुपशमवतां क्लेशहतबे
गता कालेनासौ विषयसुखसिद्ध पै विषयिणाम् ॥
Digitized by Google