शतकत्रयम् /113
This page has not been fully proofread.
१२
भर्तृहरिकृतं
योऽभिमानो गर्वस्तेनोन्नता उन्नति प्राप्ताः स्मः ॥ त्वं विभवैर्गजतुरगाद्यैश्वर्यैः
ख्यातोऽसि, नोऽस्माकमपि यशांसि कवयो दिक्षु प्रतन्वन्ति विस्तारयन्ति, त्व-
मिव वयमपि लोके प्रसिद्धा इत्यर्थः ॥ इत्थं पूर्वोक्तप्रकारेण हे मानद मानं द्यति
खण्डयति तत्संबुद्धिः हे मानद, उभयोरप्यावयोरन्तरं भेदोऽतिदूरमतिशयेन
नास्ति ॥ तस्माद्यदि त्वमस्मासु विषये पराङ्मुख आदररहितस्तर्हि वयमपि
एकान्ततोऽत्यन्तं निःस्पृहा वाञ्छारहिताः स्मेति शेषः ॥ अत्यन्तनिःस्पृह-
त्वाद्वयं त्वदीयादरापेक्षां सुतरां न कुर्म इति भावः ॥ " शार्दूलविक्रीडितं
"
वृत्तम् ॥ २३ ॥
लोके भूपतित्वाभिमानोऽतितुच्छत्वाद्वृथैवेत्याह-
अभुक्तायां यस्यां क्षणमपि न यातं नृपशतै-
र्भुवस्तस्या लाभ क इव बहुमानः क्षितिभुजाम् ॥
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ २४ ॥
अभुक्तायामिति ॥ यस्यां क्षणमपि क्षणमात्रकालमपि अभुक्तायां सत्यां
नृपशतैरनेकनृपैर्न यातं न गमनं कृतं, किं तु अनन्ताः पूर्वे नृपतयो भुक्त्वैव
याता न तु चिरकालं स्थिता इत्यर्थः ॥ अचिरस्थायि संभोगवत्यास्तस्या
लाभे न किंचित्फलमित्याह - भुव इति ॥ तस्याः पृथिव्या लाभे क्षितिभुजां
क इव बहुमानो न कोऽपीत्यर्थः ॥ सत्यपि संभोगलाभे न सर्वस्याः किं तु
तल्लेशमात्रस्य सः, तथा च तल्लाभेन महान्संतोषो न विधेय इत्याह-तदं-
शस्येति ॥ तस्याः पृथिव्या अंशस्याप्यंशे तथा तस्यांशस्यावयवलेशस्तस्मिन्
वयं पतयः स्वामिन इति जडा मूर्खाः विषादे कर्तव्ये सति प्रत्युत विपरीतं
मुदं हर्ष विदधति कुर्वते ॥ यत्किचिदंशे पतित्वलाभेन हर्षकरणमनुचित-
मिति भावः ॥ " शिखरिणी वृत्तम् " ॥ २४ ॥
परिच्छिन्नैश्वर्यवद्भयो राजभ्यो धनादियाचनमत्यन्तमनुचितमिति सूचयं-
स्तेभ्यो धनाकाङ्क्षिणः पुरुषान् निन्दयन्नाह -
मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं मन्वणु-
रङ्गीकृत्य स एव संयुगशतै राज्ञां गणैर्भुज्यते ॥
नो दद्युर्ददतेऽथवा किमपि ते क्षुद्रा दरिद्रा भृशं
घिग् धिगु तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये २५
मृत्पिण्डेति ॥ सर्वोऽप्ययं मृत्पिण्डः पृथ्वीरूपो यतो जलरेखया समुद्रेण व-
Digitized by
Google