शतकत्रयम् /112
This page has not been fully proofread.
वैराग्यशतकम् ।
११
दुर्जनानामविनयमनम्रतापूर्वकमाचरणं अनुमन्तुमनुमोदितुमहं नोत्सहे समर्थी
न भवामीत्यर्थः ॥ वन्यफलादिना जीवनादिकं वरं न तु खलसहवास इति
भावः ॥ मालिनी वृत्तम् " ॥ २१॥
66
अधुनातनानां जनानां जगत्संबन्धि यत्किंचिदंशे स्वामित्वमुपलभ्य तद्वि-
षये उन्मादपूर्वकमभिमानकरणमनुचितमित्याह—
विपुलहृदयैर्धन्यैः कैश्विजगजनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ॥
इहहि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ २२ ॥
विपुलेति ॥ विपुलं महत् हृदयं येषां तैरुदारमनस्कैरिति यावत्, धन्यैः
पुण्यवद्भिः कैश्चिद्ब्रह्मादिभिः पुरा इदं जगज्जनितमुत्पादितम् ॥ अपरैर्विष्ण्वा-
दिभिर्विधृतं धारितं पालितमिति यावत् ॥ अन्यैः परशुरामादिभिश्च वि-
जित्य जित्वा तृणं यथा तृणमिव ॥ यथाशब्द इवार्थे ॥
" ववा यथा तथै-
वैवं साम्ये इत्यमरः "
॥ कश्यपादिभ्यो दत्तम् ॥ इह हि अस्मिन्लोके अन्ये
धीरा बलिप्रभृतयश्चतुर्दश भुवनानि भुञ्जते उपभुञ्जते ॥ अत्र भुजधातुरूप-
भोगार्थो न पालनार्थः ॥ तथापि कतिपयानि च पुराणि नगराणि तेषां
स्वाम्ये खामित्वे सति पुंसां एष मदज्वरः कः अत्यन्तमयोग्य इत्यर्थः ॥ ब्र-
ह्मादिभिरपि जगज्जननादि कार्ये कृतेऽपि तादृश उन्मादो न कृतस्तदपेक्षया
क्षुद्रजनानां जगत्संबन्धि यत्किंचिदंशलाभेन तद्विषये उन्मादपूर्वकमभि-
मानकरणमनुचितमिति किमु वक्तव्यमिति भावः ॥ " हरिणी वृत्तम् ॥ रस-
युगहयैन्स म्रौ स्लो गौ यदा हरिणी तदेति तल्लक्षणात्" ॥ २२ ॥
कंचिद्राजानं प्रति कस्यचिद्वैराग्यवतः पुरुषस्योक्तिवर्णनेन निःस्पृहत्वस्य
श्रेष्ठत्वं सूचयन्नाह—
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ॥
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराब्युखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ २३ ॥
त्वमिति ॥ हे राजन् त्वं राजा, राजत्वेनोन्नतश्चेत् वयमपि उपासितः
सेवितो यो गुरुस्तस्माल्लब्धा या प्रज्ञा कार्याकार्यविवेकवती बुद्धिस्तस्यास्तया
Digitized by
Google