शतकत्रयम् /111
This page has not been fully proofread.
१०
भर्तृहरिकृतं
वस्तुतः श्लेष्मण अगारं गृहं एवंविधं यन्मुखमाननं तदपि च शशाङ्केन तु-
लितं चन्द्रोपमानेन वर्णितमिति यावत् ॥ तथा वस्तुतः स्रवत्प्रस्रवद्य-
न्मूत्रं तेन क्विनमा यज्जघनं कटिपुरोभागः तदेव करिवरो हस्तिश्रेष्ठस्तस्य
करः शुण्डादण्डस्तं स्पर्धते तच्छीलं तत्सदृशत्वेन वर्णितमिति यावत् ॥ कवि-
जनैरतिरम्यत्वेन वर्णितस्यापि स्त्रीरूपस्यातिकुत्सितत्वेन तद्विषयेऽत्यन्ताभि-
लाषो न करणीय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ १९ ॥
मोहस्य दुर्निवारत्वं वर्णयन्नाह -
अजानन्माहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् ॥
विजानन्तोऽप्येतद्वयमिह विपज्जालजटिला-
न मुश्चामः कामानहह गहनो मोहमहिमा ॥ २० ॥
अजानन्निति ॥ शलभः पतङ्गः माहात्म्यमर्थादग्नेः अजानन्न जानन्सन्
तीव्रस्तीक्ष्णो दहनोऽग्निस्तस्मिन्पततु, तथा स प्रसिद्धो मीनो मत्स्योsपि पि-
शितं मांसं बडिशेन मत्स्यवेधनेन युतमिति अज्ञानात् अश्नाति चेत् अश्नातु भक्ष-
यतु, वयं तु इह संसारे विशेषेण विजानन्तो ज्ञानवन्तोऽपि विपज्जाले नापज्जा -
लेन जटिलान्व्याप्तान् कामान् विषयाभिलाषान्न मुञ्चामो न त्यजामः ॥ किं-
त्याश्रयामः, एतद्विषयाश्रयणं गहनो दुर्ज्ञेयो मोहस्य महिमाsस्ति, अहहेति
खेदे " शिखरिणी वृत्तम्" ॥ २० ॥
खलानामविनीतं चरितमतिदुःसहमित्याह-
फलमलमशनाय स्वादु पानाय तोयं
शयनमवनिपृष्ठे वल्कले वाससी च ॥
निधुवनमधुपानभ्रान्तसर्वेन्द्रियाणा-
मविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ २१ ॥
फलमिति ॥ अशनाय भोजनाय फलमलं पर्याप्तम् ॥ ओदनादि नापेक्षित-
मित्यर्थः ॥ अलमित्यस्योत्तरत्राप्यन्वयः ॥ पानाय तृषाशान्तये स्वादु मृष्टं तो-
यमुदकम् न मद्यादि ॥ अवनिपृष्ठे भूपृष्ठे शयनं न पर्यङ्कादौ ॥ वाससी
वस्त्रे वल्कले न कौशेयादी ॥ अतो निधुवनं मैथुनमेव मधु मद्यं तस्य पानं
तेन, यद्वा निधुवनं मधु च ताभ्यां [ धनलवमध्विति पाठे ] धनस्य लबो
केशः स एव मधु तस्य पानं तेन भ्रान्तानि सर्वाणि इन्द्रियाणि येषां तेषां
Digitized by
Google