Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
विवेकेति ॥ विवेकस्य व्याकोशो विकसनं यस्मिन्तस्मिन् शमे विदधति
कुर्वति सति, तुङ्गे उन्नते तृषायाः परिष्वङ्गे आश्लेषे शाम्यति सति, सा परि-
णतिः सुखविशेषरूपः परिणामः प्रसरतितरामतिशयेन विस्तारं प्राप्नोति ॥
सा का ॥ यस्यां परिणतौ विषये जरया जीर्णमैश्वर्य, प्रसनं अन्नादिभक्षणं
तन्निमित्तो गहनो गम्भीरो य आक्षेपो निन्दा च ताभ्यां कृपणः एवंविधो म-
रुतां देवानामधिपतिरिन्द्रोऽपि यस्यां परिणतौ तृषापात्रं तृष्णाभाजनं भवतीति ॥
यस्यां परिणतौ विषये साक्षादिन्द्रोऽपि स्पृहां करोतीत्यर्थः ॥ " शिखरिणी वृ-
त्तम् " ॥ १७ ॥
 
विषयवासनापरित्यागस्यात्यन्तदुर्घटत्वमाह--
 
भिक्षाशनं तदपि नीरसमेकवारं
 
शय्या च भूः परिजनो निजदेहमात्रम् ॥
वस्त्रं च जीर्णशतखण्डमयी च कन्था
 
हाहा तथाऽपि विषया न परित्यजन्ति ॥ १८ ॥
 
भिक्षेति ॥ भिक्षाया अशनं भोजनं, तदपि नीरसं रसरहितं तदपि एक-
वारं न द्विवारम्, तथा शय्या च शयनं च भूर्भूमिः न तूलादि, तथा परिजनः
परीवारो निजदेहमात्रं स्वदेहमात्रं न स्त्रीपुत्रादि, तथा वस्त्रमाच्छादनं जीर्णा -
नि यानि शतखण्डानि तत्प्रचुरा कन्था न तदतिरिक्तं किंचित्, तथापि एवं
सत्यपि विषया भोग्यपदार्थवासना न परित्यजन्ति । हाहा अतिकष्टमित्यर्थः ॥
" वसन्ततिलका वृत्तम्" ॥ १८ ॥
 
कविजनैरतिरमणीयत्वेन वर्णितमपि स्त्रीणां रूपं विचारे कृते वस्तुतोऽति-
निन्द्यमिति वर्णयन्नाह -
 
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
 
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ॥
स्रवन्मूत्रक्लिनं करिवरकरस्पर्धि जघनं
 
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १९ ॥
 
स्तनाविति ॥ मुहुः सदैव निन्द्यं कुत्सितं रूपं कविजनविशेषैः कविश्रेष्ठै-
गुरु महत् अतिरमणीयभिति यावत्, कृतं कल्पितमित्यर्थः ॥ कथमित्याह । स्त-
नाविति ॥ वस्तुतो मांसस्य ग्रन्थी एवंविधौ स्तनौ कुचौ कनकस्य सुवर्णस्य
कलशौ घटाविति उपमितौ कनककलशोपमानेन वर्णितावित्यर्थः ॥ तथा
 

 
Digitized by Google