Proofing

This page has not been fully proofread.

भर्तृहरिकृतं
 
कर्मवशात्स्वस्मिन्प्राप्तं दौर्गत्यं न शोचनीयमिति श्लेषमर्यादया चन्द्रसूर्य -
दृष्टान्तपूर्वकं सूचयन्नाह—
 
येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः ॥
 
तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः ॥ १५ ॥
 
येनैवेति ॥ येनैवाम्बरखण्डेन वस्त्रखण्डेन [ पक्षे आकाशभागेन ] निशि
रात्रौ चन्द्रमाः संवीतो वेष्टितस्तंनैव अंबरखण्डेन दिवा दिवसे भानुः सूर्यो -
ऽपि संवेष्टितो भवति ॥ एतयोः सर्वजगन्निर्वाहकरणयोरपि सूर्याचन्द्रमसो-
दौर्गत्यं एकवस्त्रखण्डेन निर्वाहकारणरूपं दैन्यमस्ति अहो इत्याश्चर्यमेतत् ॥ एवं
समर्थयोरप्येतयोरेतादृशदौर्गत्यसत्त्वे कास्माकं कथेति भावः । अनुष्टुब् वृत्तम् १९
पुरुषस्य स्वयमेव विषयत्यागोऽत्यन्तसुखहेतुरिति सूचयन्नाह -
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया
 
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
 
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १६ ॥
 
अवश्यमिति ॥ विषया भोग्यपदार्थाश्विरतरं बहुकालमुषित्वाऽपि वासं
कृत्वाऽपि अवश्यं यातारो गन्तारो गमिष्यन्त्येव तेषामनित्यत्वात् ॥ एवंसति
बुद्धया विषयत्यागे स्वयं गमने च वियोगे विश्लेषे को भेदो न कोपीत्यर्थः ॥
यद्येन भेदेन जनः स्वयममून् विषयान्न त्यजति ॥ विषयाणां इच्छया गमने
पुरुषेण बुद्धया त्यागे वियोगे भेदाभावेऽपि स्वयं गमने दुःखहेतुत्वं बुद्धया
त्यागे च सुखहेतुत्वमिति सूचयितुं फलभेदं दर्शयति ॥ व्रजन्त इति ॥ एते
प्रसिद्धा विषयाः स्वातन्त्र्यात्स्वेच्छया व्रजन्तो गच्छन्तः सन्तो मनसोऽतुलो-
नुपमो यो परितापस्तस्मै भवन्ति मनसो दुःखदा भवन्तीत्यर्थः ॥ स्वयं पुरु-
षेण त्यक्तास्तु अनन्तमपारं शमसुखं शान्तिसुखं विदधति कुर्वते हि निश्व-
येन ॥ तस्माद्विषयत्यागस्य शान्तिसुखहेतुत्वात्तत्त्यागोऽवश्यं पुरुषेण कर्तव्य
इति भावः ॥ " शिखरिणी वृत्तम् ॥ १६ ॥
 
तृष्णाशान्तेरत्यन्तसुखहेतुत्वमाह -
 
विवेकव्याकोशे विद्धति शमे शास्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरति तरां सा परिणतिः ॥
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपण-
 
स्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥ १७ ॥
 
Digitized by
 
Google