शतकत्रयम् /108
This page has not been fully proofread.
वैराग्यशतकम् ।
शेषः ॥ तथा तपः कृच्छ्रचान्द्रायणादि न तप्तं न कृतं किं तु वयमेव तप्ताः
दुःखं प्राप्ताः ॥ दुःखनाशहेतुभूतं तपो न तप्तमित्यर्थः ॥ तथा कालो घट-
कादिर्न यातो न गतः किं तु वयमेव याताः यस्मिन्काले यदुचितं कर्म तद्वि-
हीना जाता इत्यर्थः ॥ तथा तृष्णा स्पृहा न जीर्णा किं तु वयमेव जीर्णाः
तु
शिथिला जाताः ॥ तृष्णाशान्तिर्न जातेत्यर्थः ॥ तस्मात्केनापि प्रकारेण न
जन्मनः साफल्यमभूदिति भावः ॥ " उपजाति वृत्तम् " ॥ १२ ॥
फलाभिसंधिपूर्वकं सकामं कर्माचरद्भिरस्माभिः परमार्थहेतुभूतं निष्कामं
कर्म कदापि नाचरितमित्याह-
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवाततपनाः क्लेशान तप्तं तपः ॥
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तत्तत्फलैरञ्चितम् ॥ १३ ॥
क्षान्तमिति ॥ क्षमया हेतुना परदत्तदुःखादिकं न क्षान्तं न सोढं मयेति
शेषः ॥ एवं सर्वत्र किंतु भयादिहेतुना क्षान्तमित्यर्थः ॥ गृहे उचितं योग्यं
सुखं संतोषतः संतोषेण न त्यक्तं किंतु पराधीनत्वादिना व्यक्तम् ॥ दुःसहाः
शीतं शैत्यं वातो वायुः तपन ऊष्मा च ते सोढाः क्षान्ताः परंतु क्लेशाद्दुःखा-
तपो न तप्तम्, अहर्निशं वित्तं द्रव्यं ध्यातं चिन्तितं परंतु नियमिता ये प्रा-
णास्तैः शम्भोः पदं न ध्यातम् ॥ किंतु तत्तत्कर्म कृतम् ॥ तत्किम् ॥ यदेव मु-
निभिस्तत्तत्फलैस्तेषां तेषां कर्मणां तानि तानि वा फलानि तैरचितं पूजितं
आदरपूर्वकं कृतमिति यावत् ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ १३ ॥
आमरणपर्यन्तं केनाऽपि प्रकारेण तृष्णापूर्तेरभावात्तद्विषये यत्नो न कार्य
इति सूचयन्नाह-
बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ॥
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ १४ ॥
बलिभिरिति ॥ मुखमाननं वलिभिराक्रान्तं व्याप्तम्, शिरो मस्तकं पलितैः
सितकेशैरङ्गितं चिह्नितमभूदिति शेष उभयत्रापि ॥ गात्राणि हस्ताद्यवयवाः
शिथिलायन्ते स्वक्रियाकरणेऽसमर्था भवन्तीत्यर्थः ॥ परंतु एका तृष्णा तरु-
णायते तरुणीवाचरति ॥ कदापि शान्ता न भवतीत्यर्थः ॥ अनुष्टुब्
वृत्तम्" ॥ १४ ॥
Digitized by Google
66