Proofing

✦

This page has not been fully proofread.

६
 
भर्तृहरिकृतं
 
तथा पशवस्तृणाङ्कुरान् भुञ्जति ते भुजः, तथा स्थलीमकृत्रिमभूमेिं शेरते ते
एवंविधाः सृष्टाः। मनुष्यातिरिक्तानां प्राणिनामुपलक्षणमिदम्, संसार एवार्णवः
समुद्रस्तस्योलने क्षमा समर्था धीर्येषां तेषां नृणां सा वृत्तिर्निष्कामयजनया-
जनादिका कृता, । सा का ॥ यां सततमन्वेषयतां मृगयतां पुरुषाणां सर्वे गुणाः
सत्त्वादिगुणकार्याणि जन्ममरणादिरूपसंसारप्रयोजकानि समाप्ति लयं प्रया-
न्ति गच्छन्ति ॥ तस्मादीश्वरेण पश्वादीनां साधारण्येन वृत्तिकल्पने ऽपि नृणां
संसारोलङ्घनक्षम बुद्धिप्रदानात्तैस्तु यया वृत्त्या संसारोच्छेदः स्यात्सैव वृत्तिराश्र-
यणीयेति भावः ॥ "शार्दूलविक्रीडितं वृत्तम् " ॥ १० ॥
 
इह कर्मभूमौ मनुष्यजन्म प्राप्य भगवद्ध्यानयागादिकर्मकान्तालिङ्गन-
रूपत्रितयमकुर्वतः पुरुषस्य जन्मनो वैयर्थ्यं प्रतिपादयन्नाह -
 
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छिन्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ॥
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ११ ॥
न ध्यातमिति ॥ संसारस्य विच्छित्तये नाशाय ईश्वरस्य जगन्नियन्तुः पर-
मेश्वरस्य पदं चरणं न ध्यातं न ध्यानविषयीकृतमस्माभिरिति शेषः ॥ एवमुत्तर-
त्रापि ॥ ईश्वरध्यानं कृत्वा मोक्षसुखं न साधितमिति भावः ॥ तथा स्वर्गस्य
द्वारं तस्य यत्कपाटं तस्य पाटने उद्घाटने पटुः समर्थो यो धर्मः यागादिः
सोऽपि नोपार्जितो न संपादितो न कृत इति यावत् ॥ यागादिना स्वर्गसुखं
न साधितमिति भावः ॥ तथा नार्याः पीनौ पुष्टौ यौ पयोधरौ स्तनौ तयोरूवः
सक्थ्नोश्च युगलं युग्मं स्वप्नेऽपि नालिङ्गितं नाश्लेोषतम् ॥ स्त्रिया आलिङ्गनादिना
विषयसुखमपि न साधितमित्यर्थः ॥ किंतु मातुर्जनन्याः केवलं यौवनं तारु -
ण्यमेव वनं तस्य छेदे वयं कुठाराः कुठारसदृशा जाताः स्मेति शेषः ॥
शार्दूलविक्रीडितं वृत्तम् " ॥ ११ ॥
 
66
 
"
 
इह संसारे यथेच्छं भोगादीनामप्रात्या जन्मनो वैयर्थ्यमाह-
 
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ॥
कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः १२
भोगा इति ॥ भोगा विषयभोगा न भुक्ता न सेविता अस्माभिरिति
शेषः ॥ एवमुत्तरत्र ॥ किंतु वयमेव भुक्ताः निगीर्णा इति यावत्, कालेनेति
 
Digitized by Google