शतकत्रयम् /106
This page has not been fully proofread.
वैराग्यशतकम् ।
स्यात्प्रविश्लेषे न द्वयोर्विकले त्रिष्विति मेदिनी" एवंविधा गेहिनी भार्या
दृश्येत दृष्टिगोचरा भवेत् तथाऽपि को मनस्वी जनः याच्ञाया भङ्गस्तस्य भयेन
गद्गदं यथास्यात्तथा गलन्ति मुखाद्बहिर्निर्गतानि, त्रुट्यन्ति स्खलन्ति अतएव
विलीनानि लुप्तानि अक्षराणि वर्णा यस्मिन्कर्मणि यथा भवति तथा स्वस्य
दग्धं यज्जठरमुदरं तस्यार्थे वदेदपि तु न कोऽपीत्यर्थः ॥ विचारवान्जनः पूर्वा-
तु
र्धोक्तविशेषणविशिष्टां भार्यां दृष्ट्वाऽपि दुष्टजठरभरणार्थे कस्याप्यग्रे न याचत
इति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ८ ॥
शरीरिणां मरणस्यातिभयहेतुत्वं वर्णयन्नाह -
निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ॥
शनैर्यद्युत्थानं घनतिमिररुद्धे च नयने
अहो धृष्टः कायस्तदपि मरणापायचकितः ॥९॥
निवृत्तेति ॥ यद्यपीति सर्वत्र संबध्यते ॥ भोगस्य विषयभोगस्येच्छा निवृत्ता,
पुरुषस्य पुरुषत्वस्य बहुमानोऽभिमानो विगलितो नष्टः, समानाः स्वसमानव-
यसः पुरुषाः सपदि तत्कालं शीघ्रमिति यावत् स्वर्याताः स्वर्ग प्राप्ता मृता इति
यावत्, सुहृदोऽवशिष्टसंबन्धिनो जीवितसमं स्वसमानं येषां ते स्वजीविततुल्या
आसन्निति शेषः, उत्थानमासनाच्चलनं शनैर्मन्दमभवदिति शेषः, च पुनर्न-
यने लोचने घनं निबिडं यत्तिमिरं रोगविशेषस्तेन रुद्धे अवलोकनासमर्थे इति
यावत् जाते, अत्र सर्वत्र वृद्धत्वमेव हेतुः ॥ तदपि एतादृशीमवस्थां प्राप्तोऽप्य-
यं कायो देहः मरणरूपो योऽपायो नाशस्तेन चकितो भीतो भवति ॥ मरणं
नेच्छतीत्यर्थः ॥ यतो धृष्टः अहो इत्याश्चर्ये ॥ तस्मान्मरणभयसदृशमन्यद्भयं
नास्तीति भावः ॥ "शिखरिणी वृत्तम् " ॥ ९ ॥
इतरपश्वादिवृत्यपेक्षया मनुष्यवृत्तेर्वैराग्यजनकत्वेन श्रैष्ठयं दर्शयन्नाह -
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः ॥
संसारार्णवलङ्घमक्षमधियां वृत्तिः कृता सा नृणां
यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ १० ॥
हिंसेति ॥ हिंसया शून्यं रहितं, अयत्नेनाश्रमेण लभ्यं लब्धुं योग्यमेवंविधं
ब्यालानां सर्पाणामशनं भोजनं धात्रा ब्रह्मणा मरुद्वायुरूपं कल्पितं कृतम्,
Digitized by Google