Proofing

This page has not been fully proofread.

भर्तृहरिकृतं
 
नान्वयः ॥ तथा चित्तस्यान्तःकरणस्य स्तम्भो रोधः वृत्तिनिरोधेन स्थि-
रीकरणमिति यावत् कृतः, ॥ तथा प्रहसिते परोपहसिते धीर्बुद्धिर्येषां तेषां
परोपहसितकर्तॄणामञ्जलिर्नमस्कारोऽपि कृतः, तथाऽपि मोघा निष्फला आशा
यस्या एवंविधा निष्फला हे आशे त्वं अतः कारितान्नर्तनादपरमन्यत् मां किं
नर्तयसि नर्तनं कारयसि ॥ " शिखरिणी वृत्तम्" ॥ ६ ॥
 
जगतो मोहं वर्णयति —
 
-
 
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥
दृष्ट्वा जन्म जरा विपत्ति मरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ७ ॥
आदित्यस्येति ॥ इदं जगत् मोहमयीं मोहप्रचुरां प्रमाद एव मदिरा तां पीत्वा
उन्मत्तभूतं कर्तव्याकर्तव्यविचारशून्यं अभूदिति शेषः ॥ तदेव विवृणोति-आदि-
त्यस्य सूर्यस्य गतागतैरस्तोदयरूपैर्गमनागमनैः अहरहः प्रतिदिनं पुरुषस्य जी-
वितमायुः संक्षीयते नश्यते, तथा बहवोऽनेकाः कार्यभाराः कार्यातिशयास्तैर्गुरु-
भिर्महद्भिः व्यापारैर्व्यवहारैः कालः कियान् गतश्चेति न विज्ञायते पुरुषेणेति
शेषः ॥ तथा जन्मोत्पत्तिः जरा च विपत्तिरापत्तिश्च मरणं च तेषां समाहा-
रस्तत् दृष्ट्वा स्थितस्याऽपि पुरुषस्य त्रासो जन्मादिजन्यं भयं नोत्पद्यते ॥
जन्मादिविपत्तीर्दृष्टवतोऽपि पुरुषस्य तत्प्रयुक्तं भयं न भवतीत्यर्थः ॥ " शार्दू-
लविक्रीडितं वृत्तम्" ॥ ७ ॥
 
विचारवतो जनस्य स्थितिं वर्णयन्नाह—
 
दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
 
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्येत चेद्गेहिनी ॥
याच्ञाभङ्गभयेन गनद्गलत्रुट्यद्विलीनाक्षरं
 
,
 
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी जनः ॥ ८ ॥
दीनादीनेति ॥ चेद्यदि दीनेभ्योऽपि अतिशयितानि दीनानि मुखानि
येषां तैः क्षुधितैः क्षुधायुक्तैः अतएव क्रोशद्भिराक्रोशद्भिः शिशुकैर्बालकैः
सदैव निरन्तरमेव आकृष्टं जीर्णमम्बरं वस्त्रं यस्याः सा ॥ यद्वा दीनेति
पृथक् पदम् ॥ आकृष्टजीर्णाम्बरा अतएव दीनेत्यर्थः ॥ निरन्ना शिशुभ्योऽपि
देयान्नरहिता अतएव विधुरा विकला ॥ किंकर्तव्यतामूढेति यावत् "विधुरं
 
Digitized by
 
Google