शतकत्रयम् /104
This page has not been fully proofread.
वैराग्यशतकम् ।
यत्नेन संतोषिताः संतोषं प्रापिताः । बहुलाभस्पृहयेत्यर्थः ॥ तथा मन्त्रस्याराधने
तत्परेण सक्तेन मनसा स्मशाने क्षपा रात्रयो नीताः एवंविधे कृतेपि यत्ने
मया वराटकोऽपि कपर्दिकापि न संप्राप्तोऽतो हे तृष्णे अधुना त्वमेव मां मुञ्च
त्यज ॥ त्वत्परिहारस्योपायान्तरासाध्यत्वात्त्वामेवाहं प्रार्थये इत्यर्थः ॥ "शार्दू-
लविक्रीडितं वृत्तम् ॥ ४ ॥
प्रार्थनयाऽप्यमुञ्चतीं तृष्णां बुद्धा पुनस्तामेव निन्दयन्नाह द्वाभ्याम् —
भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किंचित्फलं
त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ॥
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्तृष्णे
जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ५ ॥
भ्रान्तमिति ॥ अनेका दुर्गा दुर्घटप्रदेशास्तैर्विषमं देशं भ्रान्तं भ्रमणं
कृतं मयेति शेषः ॥ गत्यर्थेति भावे क्तः ॥ तथाऽपि किंचिदपि फलं न प्राप्तम् ॥
तथा उचितं योग्यं, जातिर्ब्राह्मणादि: कुलमुत्तमकुलं तयोरभिमानं त्यक्त्वा सेवा
कृता साऽपि निष्फला जातेति शेषः ॥ तथा परगृहेषु मानेन विवर्जितं
यथा स्यात्तथा आशङ्कया भयेन काकवत् ध्वाङ्क्षवदुक्तम् "शङ्का भासे वितर्के
च" इति मेदिनी ॥ तथाऽपि पापकर्मणि निरते सक्ते एवंविधे हे तृष्णे नृ-
म्भसि विकसिता भवसि, अद्याऽपि न संतुष्यसि संतोषं न प्राप्नोषि ॥ एत-
दपेक्षयाप्यधिकां कां कां विपत्ति दातुमिच्छतीत्यहं न जाने इति भावः ॥
"शार्दूलविक्रीडितं वृत्तम्" ॥ ५ ॥
किंच—
खलोल्लापाः सोढाः कथमपि तदाराधनपरै-
निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ॥
कृतश्चित्तस्तम्भः प्रहसितधियामञ्जलिरपि
त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ६ ॥
खलोल्लापा इति ॥ खलानां दुर्जनानामुल्लापा नीचभाषणानि तेषां खलानामा-
राधनं सेवनं तस्मिन्परास्तत्परास्तैरेवंविधैरस्माभिरिति शेषः ॥ कथमपि महास-
ङ्कटेन सोढा मर्षिताः, हसितं तदुपहसितमपि अन्तरभ्यन्तरे तत्कृतकटुभा-
षणैरुत्थितं बाष्पं नेत्राश्रु निगृह्य निरुध्य शून्येन स्तब्धेन कार्याकार्यविचार-
शून्येनेति यावत् ॥ एवंविधेन मनसा सोढमिति लिङ्गविभक्तिविपरिणामे-
Digitized by
Google