Proofing

This page has not been fully proofread.

भर्तृहरिकृतं
 
गर्वेण दूषिता दोषयुक्ताः, अन्ये पूर्वोक्तातिरिक्तास्ते अबोधेन अज्ञानेनोप-
हता नष्टाः सन्तीति किमपि न जानन्तीत्यर्थः ॥ अतः सर्वे भाषितं सुभाषितं
अङ्गेष्वेव जीर्णे लीनं भवतीति शेषः । फलाभावाद्बहिर्न प्रकटितमित्यर्थः
जीर्णमङ्गे सुभाषितमिति पाठे सुभाषितमिति स्पष्टार्थः संपद्यते ॥ अनुष्टुब् वृत्तम् ॥
महता पुण्येन संपादिता अपि लौकिका विषयाः सुखजनका न भवन्ती -
 
त्याह-
 
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
 
विपाकः पुण्यानां जनयति भयं मे विमृशतः ॥
महद्भिः पुण्यौघैश्विरपरिगृहीताश्च विषया
 
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ३ ॥
 
न संसारेति ॥ अहं संसारे उत्पन्नं चरितं जगद्वयापारं कुशलं सुखकरं
नानुपश्यामि ॥ ननु पुण्यकर्म सुखकरं स्यादित्याशङ्कयाह - विपाक इति ॥
पुण्यानां पुण्यकर्मणां विपाकः परिणामो विमृशतो विचारयतो मे भयं जनय-
त्युत्पादयति ॥ कुत इत्याह; महद्भिः पुण्यौघैः पुण्यसमूहैः चिरं चिरकालं परि-
गृहीताः महान्तो विषयाः विषयिणामनुरागिणां व्यसनं दुःखं दातुमिव जाय-
न्ते ॥ " क्षीणे पुण्ये मर्त्यलोकं विशन्तीति वचनात्" प्राप्तानामपि स्वर्गादि-
विषयाणां क्षयिष्णुत्वादित्यर्थः ॥ महता यत्नेनाचर्यमाणस्य सकामपुण्यस्य
क्षयिष्णुफलजनकत्वेन दुःखदत्वेपि सद्गुरूपदेशादिनाऽऽचीर्यमाणस्य निष्का-
मधर्मस्यसुखदत्वादिवशब्दः ॥ अत एव विषयिणामित्युक्तम् ॥ " शिखरिणी
वृत्तम् " ॥ ३ ॥
 
तृष्णाविषयीभूतानां पदार्थानां महता यत्नेनापि संपादयितुमशक्यत्वात्
तामेव प्रार्थयन्नाह -
 
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ॥
मन्त्राराधनतत्परेण मनसा नीताः स्मशाने क्षपाः
 
संप्राप्तश्च वराटकोऽपि न मया तृष्णेऽधुना मुंच माम् ॥ ४ ॥
उत्खातमिति ॥ क्षितितलं निधेर्निक्षेपस्य शङ्कया उत्खातं खनितम् । नि-
धिलाभतृष्णयेत्यर्थः ॥ तथा गिरेः पर्वतस्य संबन्धिनो धातवः स्वर्णादयो ध्माता
अनेकौषधियोगेन तापिताः । स्वर्णादिलाभेच्छ्येत्यर्थः ॥ तथा सरितां नदीनां
पतिः समुद्रो निस्तीर्णो लङ्घितः । रत्नादिवाञ्छयेत्यर्थः ॥ तथा नृपतयो राजानो
 
Digitized by Google