शतकत्रयम् /102
This page has not been fully proofread.
अथ भर्तृहरिकृतं
वैराग्यशतकं प्रारभ्यते ।
अथ श्रीमद्राजर्षिप्रवरो भर्तृहरिर्द्वितीयं परिणामे वैराग्यजनकं, शृङ्गारश-
तकं विधायेदानीं वैराग्यशतकं चिकीर्षुर्वैराग्यफलस्य ज्ञानस्य दाता शिवापे-
क्षयाऽन्यो नास्तीति तं वर्णयति -
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ॥
अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
चूडोत्तंसितेति ॥ चूडायां केशपाशे उत्तंसिता भूषणीभूता चारू रमणीया
या चन्द्रकलिका चन्द्रकला तस्याश्चञ्चन्त्यो देदीप्यमाना याः शिखा: किरणा-
स्तैर्भास्वरः शोभायमानः ॥ " घृणिज्वाले शिखे अपीत्यमरः " लीलया दग्धो
विलोलश्चञ्चलः कामशलभः कामपतङ्गो येन सः, श्रेयः सर्वेषां कल्याणं तस्य
दशा अवस्था तदर्थं अग्रे स्फुरन्प्रकाशमानः लोकानां कल्याणं कर्तुं प्रकटीभूत
इत्यर्थः ॥ अन्तरभ्यन्तरे स्फूर्जत्प्रकाशमानोऽपारः पाररहितो यो मोहः स एव
तिमिरमन्धकारः अज्ञानमिति यावत्तस्य प्राग्भारोऽतिशयस्तमुच्चाटयन् समूलं ना-
शयन एवंविधो भक्तचेतसि ज्ञानं प्रदीपयति प्रकाशयतीति ज्ञानप्रदीपः ॥ [प्र-
ज्ञाप्रदीप इति पाठे ] -Sप्ययमेवार्थः ॥ हरः शिवो योगिनां चेत एव सद्म गृहं
तस्मिन् विजयते सर्वोत्कर्षेण वर्तते ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १ ॥
प्रायशो लोके सुभाषितचातुर्यरसज्ञानामभावात्स्वीयं सुभाषितचातुर्य
निन्दयन्नाह कविः -
-
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ॥
अबोधोपहताश्चान्ये जीर्णमङ्गेषु भाषितम् ॥ २ ॥
बोद्वार इति ॥ बोद्धारो ज्ञानिनः मत्सरेण अन्यस्मिन् दोषदर्शनरूप-
मात्सर्येण ग्रस्ता व्याप्ताः, तथा प्रभवः राजानः स्मयेनाहमेव गुणी नान्य इति
Digitized by Google