Proofing

This page has not been fully proofread.

४०
 
भर्तृहरिकृतं
 
॥ साहसानामविचाराणां पत्तनं नगरम्, अविचारप्रचुरमित्यर्थः ॥ दोषाणां सं-
निधीयन्तेऽस्मिन्निति संनिधानं स्थानम्, दोषनिवासभूतमित्यर्थः ॥ कपटश-
तमयं अनन्तकपटप्रचुरं, अप्रत्ययानामविश्वासानां क्षेत्रमुत्पत्तिस्थानं जनक-
मिति यावत् ॥ स्वर्गद्वारस्य विघ्नोऽन्तरायः, नरकपुरस्य मुखम्, सर्वमायानां
कपटानां करण्डम्, करण्डवत्सर्वकपटसंग्राहकमित्यर्थः ॥ विषं विषमयम्,
अन्तर्विषवन्मारकमित्यर्थः ॥ बहिः अमृतमयममृतप्रचुरम्, प्राणिनां एकपाशो
मुख्यबन्धनं एवंविधं स्त्रीयन्त्रं केन सृष्टं निर्मितं तन्न जाने ॥ एवंविधं स्त्रीयन्तं
दृष्ट्वा ततो
स्थेयमिति भावः
दूरतः
स्रग्धरा वृत्तम् " ॥ ९८ ॥
सत्यत्वे न शशाङ्क एष वदनीभूतो नवेन्दीवर-
 
66
 
द्वन्द्वे लोचनतां गते न कनकैरप्यङ्गयष्टिः कृता ॥
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
 
त्वड्यांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ ९९ ॥
सत्यत्वे नेति ॥ सत्यत्वे याथार्थ्ये विचारिते सतीति शेषः ॥ एष शशाङ्क-
11
श्चन्द्रः वदनीभूतो न, वा अथवा इन्दीवरद्वन्द्वे नीलकमलयुग्मे लोचनतां
नेत्रतां गते न, अङ्गयष्टिः शरीरयष्टिरपि कनकैः सुवर्णैः कृता न, किंतु
एवं पूर्वोक्तप्रकारेण कविभिः प्रतारितं वञ्चितं मनो यस्य सः, एवंविधः त-
त्त्वं याथार्थ्य विजानन्नपि यो जनः त्वक् च मांसं च अस्थि च तन्मयं मृग-
दृशां हरिणीदृशां स्त्रीणां वपुः शरीरं सेवते स मन्दो मूढो मूर्ख इति या-
वत् ॥ भाग्यहीनो वास्ति ॥ " मूढाल्पा पटुनिर्भाग्या मन्दा इत्यमरः " ॥
शार्दूलविक्रीडितं वृत्तम् ॥ ॥ ९९ ॥
 
66
 
किंच-
 
स्मृता भवति पापाय दृष्टा चोन्मादकारिणी ॥
 
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ १०० ॥
 
॥ इति श्रीमद्भर्तृहरिविरचितं शृङ्गारशतकं समाप्तम् ॥
स्मृति ॥ या स्त्री स्मृता सती पापाय भवति, तथा दृष्टा च उन्मादं करोति
तच्छीला एवंविधा भवति, तथा स्पृष्टा सती मोहाय भवति सा दयिता प्रिया
कथं नामेति संभावनायाम् ॥
"
अनुष्टुब् वृत्तम् " ॥ १०० ॥
 
66
 
मया कृष्णेन व्यरचि शृङ्गारशतकोपरि ॥ अर्थद्योतनिका व्याख्या
प्रीयतां तेन माधवः ॥ १ ॥ इति श्रीमहाबलोपनामक कृष्णसूरिविर-
चितायामर्थद्योतनिकाभिधायां टीकायां शृङ्गारशतकं संपूर्णम् ॥
 
Digitized by Google