Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
३९
 
गताः अभूवन्निति शेषः ॥ ये तु मानवाः घृतेन सहितं सघृतं पयो दुग्धं
दधि च ताभ्यां युतं शाल्यन्नमोदनं भुञ्जन्ति तेषामिन्द्रियाणां निग्रहो 'यदीति
संभावनायां' यदि भवेत्तर्हि विन्ध्यः पर्वतः सागरं समुद्र तरेत् ॥ समुद्रे वि-
न्ध्यतरणं यथा दुर्घटं तथा शाल्यन्नादिभोजिनामिन्द्रियनिग्रहो ऽप्यतिदुर्घट इति
भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥
 
अत्यन्तापकारजनकत्वेन स्त्रीणां भ्रविक्षेपं खलसादृश्येन वर्णयति—
अजितात्मसु संबद्धः समाधिकृतचापलः ॥
 
भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥ ९६॥
 
अजितात्मस्विति ॥ स्त्रिया भ्रूविक्षेपः कटाक्षचालनं खलायते खल
इवाचरति ॥ " कर्तुः क्यङिति क्य" ॥ कीदृशो भ्रूविक्षेपः खलश्च ॥ न
जित आत्मा चित्तं यैस्तेष्वजितेन्द्रियेषु संबद्ध:, तथा समाधौ चित्तैकाग्र्ये
[ पक्षे सम्यगाधी मानसपीडायां विषये, ] कृतं चापलं येन सः, तथा भु-
जङ्गो जारस्तद्वत् [पक्षे भुजङ्गवत्सर्पवत्, ] कुटिलः, ॥ तथा स्तब्धः स्थिरः [पक्षे
गर्विष्ठः, ] एवंविधः ॥ अनुष्टुब् वृत्तम् " ॥ ९६ ॥
 
""
 
रूपकविधयाऽधरचुम्बनकुचमर्दनयोः सहेतुकत्वप्रदर्शनपूर्वकत्वं विषयनि-.
गरणपूर्वकं दर्शयन् स्त्रीणां बाह्याभ्यन्तरस्वभाववैजात्यमाह -
 
मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ ९७ ॥
मध्विति ॥ योषितां स्त्रीणां वाचि वाण्यां मधु तिष्ठति, हृदि हृदये के-
वलं हालाहलं तत्संज्ञकृविषं तिष्ठतीति संबन्धः ॥ अत एव पुरुषेण स्त्रीणा-
मधरोऽधरोष्ठो निपीयते हृदयं तु मुष्टिभिरेव ताड्यते ॥ " वैतालीयं वृत्तम्,
षड्डिषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्रपराश्रिता कला
वैतालीयेंऽते रलौ गुरुरिति तलक्षणात् " ॥ ९७ ॥
 
एतावत्पर्यन्तं कृतेन शृङ्गारवर्णनेन परलोकसाधनं न भवतीति तत्साधकं
वैराग्यं संपादयितुमादौ तदन्तरायभूतां स्त्रियं निन्दयन्नाह श्लोकद्वयेन—
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां
 
दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं
 
स्त्रीयन्त्रं न सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥ ९८ ॥
आवर्त इति ॥ संशयानां संदेहानामावर्तः, जलभ्रमणवदविरतसंशयजन-
कमित्यर्थः ॥ अविनयस्यानीतिकर्मणो भवनं गृहम्, अविनयाव्यभिचारीत्यर्थः
 
Digitized by Google