शतकत्रयम् /10
This page has not been fully proofread.
11 eft: 11
विद्ददभ्यर्थना.
स्वस्तिश्रीमत्समस्तजगदाधारपरमकरुणावतारस्य घनश्यामकल्पविटपिविश-
ङ्कटविटपतटप्रकटप्रोत्कटसुमनःसमानमृदुलभक्तावतंसमन: सिंहासनकृताधिवा-
सनस्य भगवतो नारायणस्य लीलातः प्रवर्तमानायामस्यां पञ्चम्यां भूतसृष्टौ
समस्तकविकलाकोविदस्याप्यवगतसकलशास्त्रस्य निजयशः सुधाधवलितविशुद्ध-
विज्ञानविलसितविबुधजनमानसमन्दिरस्य नितान्तशौर्योदार्यधैर्यवीर्यगाम्भीर्य-
सौशील्यादिगुणमणिगणाभरणविभूषितकलेवरस्य, पवित्रचरित्रपवित्रीकृतधरि-
त्रीबलयस्य, सकलावनीशवन्दितचरणस्य, दिगन्तरलुठत्कीर्ते राजर्षिप्रवरस्य,
श्रीमतो भर्तृहरिमहीपालस्य निजानुभवपुरःसरं संसारतत्त्वार्थसारोपदेशदेशि-
कीभूतमिदं शतकत्रयात्मकं नीतिशृङ्गारवैराग्यविषयनिबद्धं काव्यं समस्तज-
नकल्याणाय संप्रसार्यमाणं विबुधजनचेतोमहानन्दं समुत्पादयतीति हि ताव-
योभूयो जोघुष्यत एव सरलबुद्धिभिर्विद्वद्भिः ॥
तदेतत्काव्यमनन्वितटीकार्थमस्ताव्यस्तनिर्गलितनिरर्गलविषयमासीत् । ता-
दृशाव्यवस्थया ग्रन्थदोषं पर्यालोच्य सहृदयसूचनया प्रेरितोऽहं गोदावरीतीर-
विलसच्छ्रीनासिकक्षेत्रनिवासिभिर्महाबलोपनामधेयैः कृष्णशास्त्रिभिर्नवीनां का-
व्यार्थानुगतां टीकां कारयित्वा प्राचीनलिखितपञ्चषट्पुस्तकानि मेलयित्वा
ग्रन्थं शोधयित्वा सुविमलकीलकाक्षरैरङ्कित्त्वा विदुषामग्रतः प्रसिद्धिमनैषम् ।
तद्धि सुधियो मदीयं प्रयासमभिनन्दनेन कृतार्थयन्त्वित्याशासे ॥
Digitized by Google
•