This page has not been fully proofread.

<page>
<ignore lang="sa">
68
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa" merge-next="true">
भक्तिविनयाभ्यां, चित्तानुवर्तकेन भागवतमूर्धन्येन तेन कृष्णमहीपालेन

त्रिसंध्यं कुलदेवतायामिव मकुटतटमालतीकुसुमशेखरीक्रियमाणनखमयू-

खजाते महानुभावे मार्ताण्ड इव मरीचिप्रकाण्डैस्संतमसमण्डलानि

प्रतिभटबुधडिम्भकभूधरडंभारंभसंभेदनजृंभिजंभरिपुदंभोलिघोषायितै-
 

गंभीरैर्वाग्गुभैरेवोपहतप्रचण्डानि खांडनिकपाषण्डमतानि कथावशेषं

खण्डितवति भगवति तस्मिन् व्यासयोगिनि पुनराहितावतारमिव

भुवनमभूत्। तथाहि – चिरादारोपितात्परिवादादिव मिथ्यात्वादमुच्यत

झडिति प्रपञ्चः । शल्यशलाकयेव लक्षणया च निर्वेदमापन्नास्सर्वेऽपि

वेदव्याहाराः प्रकृतिधुरां बिभरांबभूवुः । विधुताभिधेया अपि स्मृतयः

आश्चर्यभूतां तात्पर्यसरणिं प्रकटयामासुः । बोधोपपादननिपुणानि

पुराणानि निरंतरं प्रावर्तत । रंभाकुचपरिरंभादिपरमार्थप्रयोजनविगलित-

व्यावहारिकफलरोगा, यागाः । जीवपरभिदावदावदेन तत्त्वबोधेन

निर्निरोधेन बभूवे । अरमरंरम्यतरम्ये देवतातारतम्ये नारायणमुख्यभाववि-

वरणा । पाराय, क्रियां विचारणोल्बणा जनानां धिषणा ।

अक्षीणलक्ष्मीसहायाचरणभक्तिभाजनमानसा बभूवुरिहैव सारूप्यभासि

इव शंखचक्रलांछनाः सकलद्विजातिसंघाः समस्तबुधनिधानभूतो वृषः

कृतयुग इव गर्जन् चतुर्भिः पदैः स्थैर्यमाव्यतनिष्ट । अथ

जातुचिद्व्याममात्रं गगनतलमधिरूढे भगवति पद्मिनीरमणे समाप्य

वैभातकीं नियम क्रियां महांतस्सर्वतः प्रत्यग्रसुधाद्रवालेपमसृणितद्विरदर-

दनैरिव विरचितं व्याख्याविलासकौशलगूढाभ्यसिषया क्षितितलमुद्भिद्य

मण्टपाकारेण परिणतमिव कुंडलिसार्वभौमं भणितमाधुरीपराजितया

सुधया निजमण्डलैः यमिन एवोपहारीकृतं दिगंतचारिणीभिर्यश छटाभि

बंदीकृत्योपनीतमिव चन्द्रसदनं स्वप्रतिष्ठापनप्रसन्नेन धर्मेण

निरंतरसेवनायेव निजांशपरिकल्पितं विरहासहिष्णुतया महीतलमवतीर्ण-

मिव प्राग्जन्मवाहनराजहंसं व्याख्यामण्टपमधिवसंतं कैटभभेदिनाभिपु-

ण्डरीकपुरवासिनमिव भगवंतं हिरण्यगर्भं, कलशसागरजठरोदयजुषमिव
 
,
 
</p>
</page>