2026-01-24 15:17:29 by ambuda-bot
This page has not been fully proofread.
पञ्चमोल्लासः
67
पक्षांधकाराणां, ग्रामणीर्धन्विनाम्, अग्रणीर्वैज्ञानिकानां, पारदृश्वा
सकलविद्यानां स कृष्णरायो जलनिधिपरिधानप्रसाधितं धरावलयं
भुजावलयमिवातिलीलया बभार । समरमहीषु दृढपाणिकृपाणलता
समजनि सततं विविधवीर्यविलासनिधेर्विबुधविमानसौधनिगमोपविधिप्र-
णयिनीविरोधियोधे ॥
कालांबुदावलिरुचा करवालवल्यां
तस्य प्रतापतपनेन समुज्ज्वलेन ।
श्रीकंठहासधवला जनिता यशः श्रीः
कार्ये गुणानितिनयं कलुषीचकार ॥
तस्मिन् प्रवीराग्रसरे रणेषु द्विषां समुत्सादयितुं समिंधे ।
स्वर्वासिनस्ते स्वयमभ्यकांक्षन् कूलंकषां कौशिककोपमुद्राम् ॥
तस्य च सकलभूपालसार्वभौमस्य विजयमङ्गलयात्रायां दिशि
दिशि विचरतः पुरस्सरायमाणं प्रलयकालप्रकटितनटनजटाटीरधूर्जटिनि-
टिलतटनयनपुटकृपीटभवसाटोपशिखाछटाटवीविघटितब्रह्माण्डस्फोटनर-
टितपाटवपरिमोटनलंपटं पटहध्वानमाकर्ण्य सर्वतः संप्रधावितानां
विरोधिवसुधाधिपानां, विपिनभूमय एव राजधान्यो, गिरिकंदराण्येव
मन्दिराणि, शिलातलान्येव सिंहासनानि, पादपमण्डलान्येवातपत्राणि,
समीरणा एव तालवृंतानि, चरणावेवोपवाह्यौ, दावनला एव दीपिकाः,
कीचका एव कुशीलवाः, पञ्चका एवालीकवादिनः, कन्दमूलप्रदेशा
एव कनककोशानि, झर्झरा एव धारागृहाः, स्वकरा एवारालिकाः,
स्वस्तिकबंधान्येव प्रच्छदवसनानि, जानून्येवावरोधनानि महीतलान्येव
मञ्चानि बभूवुः । तादृशेन सकलगुणगणसंकेतमदेन, प्रांशुना,
नयविचाराभ्यां, मांसलेन कीर्तिकरुणाभ्यां दुराधर्षेण शौर्यगांभीर्याभ्यां
ललितेन विद्यासुषमाभ्यां प्रसाधितेन सौजन्यवितरणाभ्यां प्रवणेन