This page has not been fully proofread.

<page>
<ignore lang="sa">
66
 
</ignore>
<ignore lang="sa">
99
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa">
म्यमाण इव मोदैरालिंग्यमान इव विस्मयैरालिप्यमान इव

विनयैरारुह्यमाण इव रणरणकैरवलंब्यमान इव श्लाघनैरजादिव दशरथो

वसिष्ठं पितुरधिकमेव भक्तिभारेण तं यतिवरिष्ठमभ्यर्चयामास ।
 
</p>
<p lang="sa">
ततोपयाते बहुवासरपरंपरापिचण्डिले समये -
 
</p>
<verse lang="sa">
कृष्णे कनीयसि महीयसि सद्गुणौघै
 

र्विन्यस्य भारमवनेर्मकुटेन साकम् ।

धीराग्रणीर्दिवमगात्स नृपः स्वधर्म

प्रोत्तुंगकोशगणनामिव कर्तुकामः ॥
 
</verse>
<p lang="sa" merge-next="true">
तदनु समस्तभुवनमङ्गलकन्दलसमयसलिलधारायमाणशासनचातु-

रीको विविधसुचरितचकोरनिश्शेषकबलितधुंधुमारादिवसुंधराधुरंधरयशश्चं-

द्रिकामण्डलः, प्रतिभटराजमहिषीकुचकमलांतरचारिहारहंसावलिसमुच्चा-
 
इव
 

टननवमेघमालायमानकरवालस्सकललोकांगीकृतशास्त्र: शेष इव

गृहीताहीनभावो, नारायण इव द्विजवरसंगप्रियः, सुरपतिरिव

सुधर्माधिरूढो, विकर्तन इव वृत्रलवित्रप्रतापपरिपूरितदिमण्डलः,

सत्कविरिव विबुधजनोपलाल्यश्लोकसंदोहः, कोदण्डदण्ड
इव
गुणप्रवणः, भृगुरिव जनितकाव्यः, कलभ इवांतस्थितदानवारिः,

कुशध्वज इव जनकानुवर्तिचरितः, सरित्प्रवाह इव निजशब्दसंदर्भः,

गौरिव निराकृतकविकुलकोलाहलः, हरिवंश इव युद्धसमुद्धतबलः

परदारविमुखोऽपि रिपुनृपतिखण्डनपरः जैवातृकोऽपि निष्कलंक:

सर्वज्ञोऽपि जिंहगसंगपरिहीणः महासेनोऽपि स्निग्धतारकः,

लोकबांधवोऽपि कुवलयक्षेमंकरः, नरेन्द्रोप्यज्ञात भुजंगव्यापारः,

सुबाहुरपि रामानन्दमूर्तिः, अभीमोऽपि दुश्शासननिग्रहजातप्रीतिः,

अपामरोऽपि सन्निहितसुमनोगणः, शिरोमणिर्भूपतीनां नभोमणिर्वि-
 
</p>
</page>