2026-01-24 16:15:10 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">पञ्चमोल्लासः
</ignore>
<ignore lang="sa">65
</ignore>
<p lang="sa">धिषणाकारीणि ताराणीव शंसितविधुमुख्यभावानि राजकृत्यानीवालीक-
वादिमर्मभंजनानि महीयांसि भूयांसि क्रमेण व्यरीरचत् ।
</p>
<verse lang="sa">तस्माद्यतेस्समुपसृत्य दिगंतरेभ्य-
स्तानि श्रुतानि मुहुरादधिरे बुधेंद्राः ।
अथांतविष्णुपदसेवनजागरूका
वारीणि सागरपतेरिव वारिवाहाः ॥
</verse>
<verse lang="sa">विसृमरजगन्मिथ्याज्ञानांधकारभिदाकृता
महितविभवं संतन्वत्या च मध्वमतांबुधेः ।
विमलितमभूद्योगिव्यासाननें दुसमुत्थया
सपदि भुवनं सर्वं तात्पर्यचन्द्रिकया तया ॥
</verse>
<verse lang="sa">व्यासयोगिलसदुक्तिनर्तकीकल्पितं कमनतर्कताण्डवम् ।
पश्यतस्सदसि कस्य मानसे तृप्तिरादित पदं विपश्चितः ॥
</verse>
<verse lang="sa">न्यायामृतं निगमवारिनिधेर्गृहीत्वा
श्रीव्यासयोगिहरिणा प्रवितीर्यमाणम् ।
पीत्वा भृशं सुमनसो धिषणाभिरन्यान्
सर्वानमंसत तृणाय सपत्नवर्गान् ॥
</verse>
<p lang="sa" merge-next="true">एवं भगवतस्तस्य
तादृक्षां प्रचुरशास्त्रप्रणयनप्रवीणतां
लोकालोकंशिलातलचंक्रमविलासलोलकेसरिनिकरदायादर्शकांकूरण-
कारणं यशःप्रसरणं च द्वीपांतरभूपालसंप्रेषितप्रधानपुरुषैरसकृत्समर्प्यमा
णानि बहुविधोपहारपूजनानि च वीक्षाविशेषमात्रेण निग्रहानुग्रहकरणस-
मुदग्रकौशलभाजनं तेजश्च वितरणलवावलेपदुर्ललितनिलिंपोपवनप्राश -
स्त्यपारणलंपटं पाणितलपाटवं च विलोकमानस्स वीरनरसिंहभूपतिराक्र-
</p>
</page>