This page has not been fully proofread.

64
 
आरब्धघोरसमराजिरगोचरारि
 
नारीजनस्मितसुधाकरकृष्णरात्रिः ।
तस्य प्रतापसुहृदा करवालवल्ली
 
श्वश्रूत्वमाप सुरवारविलासिनीनाम् ॥
 
श्रीव्यासयोगिचरितम्
 
तत्प्रतापदहनस्य सर्वदिक्रोडदुर्ललनकेलिशालिनः
तापभारमिव सोढुमक्षमो नीरधौ स निममज्ज बाडवः ॥
 
मलयगिरिरिव
 
तेन सकलगुणगणमणिखनीभूतेन विवाहविधिनेव प्रकटितकर-
ग्रहणेन चन्द्रमसेवान्वर्थराजशब्देन पुरहरेणेवाचलकोदण्डेन हेरंबेणेव
रणसहायशरजातेन योगपथेनेव समुज्जृंभमाणप्रतापानलमण्डलदुर्निरीक्षम-
हावीरपरिवृतेन पोषकेण प्रश्रयस्य, सादिना राजतुरंगस्य भद्रपीठेन
धैर्यसाम्राज्यस्य, पुण्यकीर्तनेन वसुधाधिपेन, हंसेनेव कमलाकरः,
प्रत्यहमुपसेव्यमानः कृतयुगसमय इव धर्मैकसहाय: कुशध्वज इव
श्रुतकीर्तिप्रभावो देवकीनन्दन इव नरकविध्वंसिचरितः लक्ष्मीवक्षोज
इवाच्युतप्रतिष्ठापितपृथुलाग्रहारो, वीणागुण इव श्रुतिमार्गसमुन्मेषणजा-
गरूकः कोकलोक इव भूयिष्ठविप्रयोगो,
सदानन्दस्पर्शनो, मन्मथ इव सन्निहितसुमनोमार्गणो, वक्षरशंकुर्विप-
क्षाणां, गरलग्रंथिमुकुलः कलिगुणानां, बिरुदडिण्डिमः पुण्डरीकाक्ष-
भक्तेः गिरिकन्दरो धैर्यकण्ठीरवस्य मणिकुंभो मध्वमतगोपुरस्य,
दौवारिको नियमकोशस्य, भगवान् स तपोनिधिः निरवशेषितसकलदुर्वा-
दिकुलगर्वतया निराकुलमानसः सकलधर्मजीवातवे तत्त्वमतस्थापनाय
तात्पर्यचन्द्रिकातर्कताण्डवन्यायामृतप्रमुखानि निधिनिकुरंबाणीव महनी -
यार्थगर्भितानि नूपुराणीव दृढपदबंधनानि, मुनिकुलानीवाबाधितयो-
गानि, भार्गवचरितानीव जीवहरिभेदनपरायणानि सुधानिष्यन्दनानीव
विबुधलोकसेव्यानि प्रमदाजनमनांसीव प्रौढतरमानानि गीर्वाणवृन्दानीव