2026-01-24 16:14:09 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">पञ्चमोल्लासः
</ignore>
<verse lang="sa">तस्मिन्यतौ वितरणेन धनाधिनाथां-
स्तन्वत्यधिक्षितितलं सकलान्बुधेंद्रान् ।
सर्वज्ञतामपि वहन विवेद देवः को
वा सखेति कुलशैलसुतासहायः ॥
</verse>
<ignore lang="sa">63
63
शिष्यवर्गाणां
</ignore>
<p lang="sa">एवमेव स मुहुर्मुहुर्यदुपतिरिव सुभद्रानन्दहेतुना विजयेन क्रमेण
विमतमतं खिलीकुर्वाणः सलिलसेचनेनेवारामं वैदिकाचारप्रवर्तनेन
धर्मसंचयमुदञ्चयन्विश्राणनकुंजरविशदचामरायमाणयशः प्रकाशो लोक-
यकुशलागमसाधारणद्वारायमाणचरणारविंदसेविनां
शिष्यवर्गाणां
तत्त्वबोधोपदेशेनानन्यसुलभमुक्तिमत्तकाशिनीघटनपटीयसीं हरिभक्तिमु-
द्दामयन् चूडामणिमिव कोटीरो भूपतिसभां भूषयन् भूयसीस्समास्सुखम-
तिष्ठत्। ततस्स महनीययश: प्रचारो नरसनृपतिविक्रमगतिनामभिः
वीरनरसिंहकूलंकषगुणसंपदः कुमारस्य भुजचण्डिमसहचरीं विधाय
महतीं वसुमतीमनवरतमधिसुधर्मममरगणिकागणवीणागुणपथपथिकनि-
जविक्रमभोगावलिश्रवणजनितविस्मयेन पुरुहूतेनाहूत इव दानवबलविज-
याय चारणशातोदरीकरांजलिशतप्रकीर्यमाणनन्दनकुसुममधुरझरीपरिरं-
भशिशिरीक्रियमाणचत्वरीं त्रिदशनगरीं लोचनयोर्गोचरीचकार ।
</p>
<verse lang="sa">सबभार ततो वसुंधरां चतुरंभोनिधिचारुमेखलाम् ।
कुलशैलकुलानि केवलं जगतो दिक्करिभिस्सहांचयत् ॥
</verse>
<verse lang="sa">तस्याभीक्ष्णं जैत्रयात्रासुखेनाधूलीपालीचूलितान् सिंधुबंधून् ।
दानांभोभिस्त्वंगदुत्तुंगभंगैः प्रत्यापत्तिं प्रापयामास पाणिः ॥
</verse>
<verse lang="sa">विद्यापुरीगिरिदरीविहिताधिवासं
कीर्तिच्छटासटमुपायचतुष्टयांघ्रिम् ।
श्रुत्वैव वीरनरसिंहमहीपतिं तं
दिग्वारणैस्सममरातिमृगा विबिभ्युः ॥
</verse>
</page>