This page has not been fully proofread.

पञ्चमोल्लासः
 
तस्मिन्यतौ वितरणेन धनाधिनाथां-
 
स्तन्वत्यधिक्षितितलं सकलान्बुधेंद्रान् ।
सर्वज्ञतामपि वहन विवेद देवः को
 
वा सखेति कुलशैलसुतासहायः ॥
 
63
 
63
 
शिष्यवर्गाणां
 
एवमेव स मुहुर्मुहुर्यदुपतिरिव सुभद्रानन्दहेतुना विजयेन क्रमेण
विमतमतं खिलीकुर्वाणः सलिलसेचनेनेवारामं वैदिकाचारप्रवर्तनेन
धर्मसंचयमुदञ्चयन्विश्राणनकुंजरविशदचामरायमाणयशः प्रकाशो लोक-
यकुशलागमसाधारणद्वारायमाणचरणारविंदसेविनां
तत्त्वबोधोपदेशेनानन्यसुलभमुक्तिमत्तकाशिनीघटनपटीयसीं हरिभक्तिमु-
द्दामयन् चूडामणिमिव कोटीरो भूपतिसभां भूषयन् भूयसीस्समास्सुखम-
तिष्ठत्। ततस्स महनीययश: प्रचारो नरसनृपतिविक्रमगतिनामभिः
वीरनरसिंहकूलंकषगुणसंपदः कुमारस्य भुजचण्डिमसहचरीं विधाय
महतीं वसुमतीमनवरतमधिसुधर्मममरगणिकागणवीणागुणपथपथिकनि-
जविक्रमभोगावलिश्रवणजनितविस्मयेन पुरुहूतेनाहूत इव दानवबलविज-
याय चारणशातोदरीकरांजलिशतप्रकीर्यमाणनन्दनकुसुममधुरझरीपरिरं-
भशिशिरीक्रियमाणचत्वरीं त्रिदशनगरीं लोचनयोर्गोचरीचकार ।
 
सबभार ततो वसुंधरां चतुरंभोनिधिचारुमेखलाम् ।
कुलशैलकुलानि केवलं जगतो दिक्करिभिस्सहांचयत् ॥
 
तस्याभीक्ष्णं जैत्रयात्रासुखेनाधूलीपालीचूलितान् सिंधुबंधून् ।
दानांभोभिस्त्वंगदुत्तुंगभंगैः प्रत्यापत्तिं प्रापयामास पाणिः ॥
 
विद्यापुरीगिरिदरीविहिताधिवासं
कीर्तिच्छटासटमुपायचतुष्टयांघ्रिम् ।
 
श्रुत्वैव वीरनरसिंहमहीपतिं तं
 
दिग्वारणैस्सममरातिमृगा विबिभ्युः ॥