This page has not been fully proofread.

⚫ 62
 
श्रीव्यासयोगिचरितम्
 
वपुषा पुलकितमुकुलं पाणिपल्लवेनांजलिं यौगपद्येन बिभ्राणेन
नरसमहीपालेन पश्यतां प्रत्यर्थिनां समक्षमेव समर्पितैः प्रकटितदुग्धडि-
ण्डीरपिण्डपाण्डिमोपहसनैर्दुकूलवसनैर्मेरुतटवास्तव्यचारणोपवनकूपगभी-
 
रिमकलहैर्हाटककटाहैश्च कुरुविंदशलाकानिर्मितेनाकलितमृदुलशिखावल-
यपिंछदलावली पवित्रेण धवित्रेण च परिणतामलपृथुलनिस्तुलमुक्ताफ-
लखचितया चरणतलपुस्तकविन्यासकबलिकया मणिपादुकयुगलिकया
च विशंकटनिकटतटिनीतटाकदीर्घिकोदारकेदारिकारामांभिरामैग्रमैः
कांचनशिबिकाकुंभचामरविविधजनपदमठालयमणिपीठिकाभिः परिव-
सितो राजसदनात्सर्वैरपि सभासद्भिरनुगम्यमानः पुंखानुपुंखविजयताल-
कोलाहललेलिह्यमानसकलदिग्वलयो विस्मयमानहृदयैः पौरजनैः
प्रतिविशिखं बहुमान्यमानविद्यावैभवो मन्दं मन्दं निजमावासं
प्रत्यासदत् ।
 
प्रावादुकस्य परिपंथिजनस्य जेता
 
योगीश्वरो नरपतिश्च तथा वदान्यः ।
अन्योन्यमुच्छ्रितकृपारसभक्तिभाजौ
व्यत्यस्तवासभवनाविव तावभूताम् ॥
 
धानुष्कवत्तस्य वदान्यभावो
 
न्यपातयद्धद्धयशः कलापः ।
 
पंक्तिं महाचापवता विमुक्तां
 
सन्मार्गणानां धनलक्षणानाम् ॥
 
क्षोणीवल्लकितल्लजे जितमहामेरूदयास्ताचल
 
स्थूलालाबुफले विशालतटिनीतंत्रीसमावेल्लिते।
तन्वानो महतो गुणे कतिपयग्रामान् हसन्नादरं
व्यासो ब्रह्मसभामुदे यतिपतिर्ग्रामान् बहून् व्यातनोत् ॥