This page has not been fully proofread.

पञ्चमोल्लासः
 
किं वा दंभोलिधारापतनपरिलुठद्भूमिभृद्भीमघोषः
 
किं घोणीशानघोणाहतबलिसदनप्रोत्कटध्वानलक्ष्मीः ॥
इत्युत्प्रेक्षंत वाचामारभटीमरिसुधियो व्यासभिक्षोरुदग्राम् ।
 
परस्परोज्जृंभितयुक्तिगुंभाः समुल्लसत्तादृशवीरवादाः ।
 
अथो तदानीमुभयेऽपि धीराः क्षणादिव त्रिंशदहान्यनैषुः ॥
 
61
 
अन्येद्युरेव विस्मयमानैस्संर्वैरपि सभ्यैरुपलाल्यमानवाग्वैखरीप्र-
भावः स भगवान् झटिति प्रयुक्तैरनभिहितग्राह्यैरज्ञानादिभिः पशुपतिरिव
शूलशिरोभिस्त्रिभिः कांश्चिदाख्यायमानवसरग्रहणीयैरप्राप्तकालप्रमुखैर्ज-
नार्दन इव भुजदंडैश्चतुर्भिः कांश्चिद्भाषितगृहीतप्रपुरोगमैः फल्गुन
इव शरनिकरैरमोघैर्निग्रहै: कांश्चिद्विमतविबुधलोकान् सलीलमेव
निराकुर्वन्निजयशः प्रपंच इव दिशामंडलं महतीं विजयलक्ष्मीं
समाश्लिषत् । तावदपयशसा सह दीर्घीभवंतं निश्वासं दधतां मध्ये
 
तेषाम्-
 
वैलक्ष्यमारचयतोऽपि कलिंगसूरे
 
स्तस्य प्रदातृमणिना मुनिना वितीर्णम् ।
 
मध्ये नरेन्द्रसभमप्रतिभां गतस्य
 
वैवर्ण्यमेव वपुषि प्रकटीबभूव ॥
 
केषांचिल्लालांबुना साकमहंक्रिया प्राशुष्यत् । परेषां स्वेदेन
सममानन्दो निरगलत्। इतरेषामाभीलेन सह लज्जा समजनिष्ट ।
अन्येषां विस्मयेन सार्धं साध्वसमवर्तत । एतेषाम् आत्मनिंदया
सत्रा स्वमतसंदेहः प्रादुरभूत् । अपरेषां स वासरः स्वप्नसमय
इवालक्ष्यत । तदनु भगवान् यतिकुलावतंसो व्यासोऽपि चेतसा
विस्मयभरं शिरसा श्लाघाकंपं चक्षुषा हर्षबाष्पं वचसा विजयस्तुतिं