This page has not been fully proofread.

<page>
<ignore lang="sa">
60
 
60
 
</ignore>
<verse lang="sa">
आकर्ण्य तावदवनीरमणेन योगी
 
.

प्रत्युद्गतिं कृतवता विनयेन दत्ते ।

पीठे घनाघन इवाद्रितटे न्यषीद

न्मंदस्मितोदयतृणीकृतवैरिसंघः ॥
 
श्रीव्यासयोगिचरितम्
 
</verse>
<verse lang="sa">
आसनायुपचितं महीभुजा व्यासयोगिनममुं विरोधिनः ।

नासहंत दमघोषजादयो वासुदेवभिव पार्थपूजितम् ॥
 
</verse>
<p lang="sa">
ते च दर्पोन्मत्तैर्बिरुदपत्रिकायास्तथाभूतेन छेदेन द्विगुणितरोषा -

वेशा विमतसुमतयो यूथपतिमिव मतंगजाः प्रवावदूकतातिरेकेण

धिषणमपि तृणाय मन्वानं बसवाभट्टनामानं कंचन कालिंगमनीषिणं

पुरस्कृत्य भगवता तेन तापसकेसरिणा सह विजिगीषया

पक्षद्वयस्थापनावतीं कामपि कथां प्रारभंत । तत्र यथापूर्वं निर्व्यूढेऽपि

सकले संघाबंधे-
 
</p>
<verse lang="sa">
विकचवदनारंभं विवादयिषोर्यते
 
<fix>-</fix>
र्बकुलधवला दंता विरेजुरितस्ततः ।

गगनतटिनीपूरागभीरमध्वमतांबुधेः

प्रतिभटसुधीप्रज्ञांबुजावलिचंद्रिकाः ॥
 
</verse>
<verse lang="sa">
सुधापरिमिलोर्मिलास्सुरसरित्प्रवाहार्भटी
 

किरीटतटकुट्टनप्रकटपाटवोद्दामराः ।

त्रयीयुवतिचूलिकासुमनसो यतिव्यासरा

ङ्गिरो नृपसभाभुवं ध्वनिमयीमिवातन्वत ॥
 
</verse>
<verse lang="sa" merge-next="true">
किं वा भूमीधरालीपतनपरवशः प्रौढदंभोलिघोषः
 

कल्पांतोज्जृंभिझंझाक्षुभितजलनिधिः सारकोलाहलः किम् ।
 
</verse>
</page>