2026-01-24 16:11:31 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">पञ्चमोल्लासः
</ignore>
<ignore lang="sa">59
</ignore>
<p lang="sa">प्रयागपुलिनप्रदेशा इव सन्निहितसरस्वतीविलासा वरवर्णिनीकटाक्षा
इव श्रुतिपारदृश्वानो भूपतय इव दुर्वारशास्त्रप्रणेतारो गंडोपला
इव महीभृत्कटकस्थितिजुषः शबरा इव बहुपक्षव्याहारकृतमुखाः
केचिदंगवंगकलिंगमालवचोलकेरलादिविविधदेशेभ्यस्सरोषोद्वेगमापतित-
मात्रा एव विपश्चितः संघीभूयाहंप्रथमिकया वादेन विजिगीषवो
राजकुलद्वारतोरणस्तंभनासायां दर्वीकरजिह्मायामिनीं बिरुदपत्रिकां
बबंधुः ।
</p>
<verse lang="sa">आडंबरेण महता भुवि दृश्यमानाः
सर्वेऽपि ते युगपदेव धराधिपस्य ।
आमर्दितां सचिवपौरपुरोहितायै
रास्थानभूमिमधिरुह्य ततो निषेदुः ॥
</verse>
<verse lang="sa">वैदेशिकानां सुधियां क्षितींद्रः
तादृग्विधामारभटीं समीक्ष्य ।
तं व्यासयोगीशितुरानुभावं
जानन्नपि त्रस्त इवावतस्थे ॥
</verse>
<p lang="sa">अत्रांतरे शिष्यमुखादाकर्ण्य तथाविधमुदंतम् ।
</p>
<verse lang="sa">संप्रेषितेन पुरतो विकलय्य पत्रीं
तां शैबिकेन तरसा यतिकुंजरस्य ।
आगच्छतो नृपसभां गगनावगाही
तालध्वनिस्समुदजृंभत संभ्रमेण ॥
</verse>
<p lang="sa">तदानीम्—
</p>
<verse lang="sa">कल्प्यमानजगदद्भुतमोदः कथ्यमानपरतंत्रविभेदः ।
विद्विषामभवदाहितखेदो व्यासयोगिजयतालनिनादः ॥
</verse>
</page>