This page has not been fully proofread.

पञ्चमोल्लासः
 
59
 
प्रयागपुलिनप्रदेशा इव सन्निहितसरस्वतीविलासा वरवर्णिनीकटाक्षा
इव श्रुतिपारदृश्वानो भूपतय इव दुर्वारशास्त्रप्रणेतारो गंडोपला
इव महीभृत्कटकस्थितिजुषः शबरा इव बहुपक्षव्याहारकृतमुखाः
केचिदंगवंगकलिंगमालवचोलकेरलादिविविधदेशेभ्यस्सरोषोद्वेगमापतित-
मात्रा एव विपश्चितः संघीभूयाहंप्रथमिकया वादेन विजिगीषवो
राजकुलद्वारतोरणस्तंभनासायां दर्वीकरजिह्मायामिनीं बिरुदपत्रिकां
 
बबंधुः ।
 
आडंबरेण महता भुवि दृश्यमानाः
सर्वेऽपि ते युगपदेव धराधिपस्य ।
आमर्दितां सचिवपौरपुरोहितायै
रास्थानभूमिमधिरुह्य ततो निषेदुः ॥
 
वैदेशिकानां सुधियां क्षितींद्रः
तादृग्विधामारभटीं समीक्ष्य ।
 
तं व्यासयोगीशितुरानुभावं
जानन्नपि त्रस्त इवावतस्थे ॥
 
अत्रांतरे शिष्यमुखादाकर्ण्य तथाविधमुदंतम् ।
 
संप्रेषितेन पुरतो विकलय्य पत्रीं
 
तां शैबिकेन तरसा यतिकुंजरस्य ।
 
आगच्छतो नृपसभां गगनावगाही
तालध्वनिस्समुदजृंभत संभ्रमेण ॥
 
तदानीम्—
 
कल्प्यमानजगदद्भुतमोदः कथ्यमानपरतंत्रविभेदः ।
 
विद्विषामभवदाहितखेदो व्यासयोगिजयतालनिनादः ॥