2026-01-24 15:17:25 by ambuda-bot
This page has not been fully proofread.
58
58
श्रीव्यासयोगिचरितम्
विपुलकनकवेदीविद्रुमस्तंभराजिं
मृगपतिरिव कुंजं मेदिनीभृद्वरस्य ॥
तत्र व्यराजत समस्ततमोनिहंता
मुद्रासने सनिवसन्मुनिसार्वभौमः ।
मार्तंडबिंब इव मार्गवशेन मंदं
मंदाकिनीपुलिनमध्यभुवं प्रविष्टः ॥
अर्चयंतमिममर्घ्यपूर्वया भागधेयपरिणाममात्मनः ।
पार्थिवस्सपदि पर्यपूजयत्पांडुसूनुरिव बादरायणम् ॥
स च भगवाननतिसमीपोपविष्टमगणनीयस्यात्मगुणवर्णनस्याऽक-
र्णनेन संकुचंतमिव सकलावयवैर्दुर्वहेण विनयभारेण प्रह्वीभवंतं
निदर्शनीक्रियमाणानां प्राक्तनपार्थिवानां द्राघीयसीभिः कर्णकुहरमाविशं
तीभिः पावनकथातरंगिणीभिः सिकतिलमिव तुमुलपुलकितकपोलमुद्र-
हंतं नरपतिं प्रांजलिं चिरेण भगवानभिगमनाय तमन्वजानीत् ।
तस्मिन् गते समुचितं सकलं करणीयं क्रमेण स दिवानिशमत्यबाहयत् ।
भक्तया संभावयंतं धर्मपदोपदेशेन प्रत्यहमनुगृह्णन् स तपोनिधिस्तत्रैव
चिरमवसत् ।
बहिर्गतैरंतरमप्रसारैराच्छादितं व्यासयतेर्यशोभिः ।
ब्रह्मांडमालक्ष्यत शुक्तिलिप्तं तपः प्रकुर्वाणमिव प्रथिने ।
एकदा तु तस्य व्यासमुनेरन्यादृशपरिपाटिं मनोवृत्तिमिव
शारदायाः
पार्थकृपाणीमिव
कर्णारुंतुदामैरावतसलिलक्रीडामिव
क्षोभकरीं समीरगतिमिवामोदहारिणीं वसंतलक्ष्मीमिव महाशोकसंवादां
विजयकथामाकर्ण्य विषवल्गविटपिन इव महेया
परिवेल्लिता: