This page has not been fully proofread.

पञ्चमोल्लासः
 
57
 
हरं तांडवविलासमदर्शयत्। अस्मै किल कृतनिर्मित्सवे चतुराननायेव
प्रेमभारेण साक्षात्सन्निहिता भगवती भारती महनीयमहः प्ररोहां कामपि
मणिलेखिकां व्यतारीत् ।
एतस्य खलु भवंति वर्षावग्रहयो:
कटाक्षवीक्षावशंवदा मेघाः । अस्मै हि जना मनसाऽप्यपचरंतो
व्याधा इव स्वयमेव वयांसि नाशयंति ।
एतस्य किल
वीक्षणमात्रेणाभिमंत्रितया विभूत्या तिलकितनिटिलभागो नृपतिः
समरशिरसि कृतवीर्यकुमारवत् प्रतिरिपुललिताकृतीनां भागवतानामु-
द्दामैः करतलतांडवितमणितालध्वनिभिः परिपूरितसकलदिगंतरालं
महातपसमुपसृत्य कोटीरकोटितलावलंबिमणिकदंबपरिचुंब्यमानमही-
तलः प्रश्रयेण शतशः प्राणंसीत् । भगवानपि मोदमानमनाः
स्मितकिशोरकेसरिताधरकिसलयो वार्षिककलमशाखाभिरिव शोभनफ-
लांतर्वर्तिभिराशीर्भिः कुशलानुयोगपुरोगमैस्समुचितैर्बहुभिरुपचारवचनैश्च
संवर्धितेन निजनिदेशाम्रेडनाधिरूढतुरगेण तेन सनत्कुमार इव
शतक्रतुना परिष्क्रियमाणश्शनैरशनैर्नगर मगाहत ।
 
तेजोविशेषादतिदुर्निरीक्षं रध्यासु रथ्यासु कुतूहलेन ।
तत्रैनमालोकयतां जनानामुच्चावचं भाषितमेवमासीत् ॥
 
अनेन खलु भद्रमेकैकतया लक्ष्यमाणास्सुखेन विजयलक्ष्मीस्वयंवर-
 
रमणा भवेयुः ।
 
इत्यादि पौरवचनं निखिलं च शृण्वन्
 
वीक्षाभिरेष विलसत्करुणाकरीभिः ।
 
व्याकीर्णनव्यमृदुपुष्पपटीरचर्चा
 
वीथीरगाहत सुमेदुरवैजयन्तीः ॥
 
तदनु स मठमागात् क्ष्माधिपेन प्रदिष्टं
 
स्फटिकमणिमयूखस्फारसोपानमार्गम् ।