2026-01-24 16:09:21 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">56
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa" merge-next="true">रोमार्गो बृंहितेन द्विरदानां हेषितेन हयानां क्ष्वेलितेन योधानाम्
आलोककोलाहलेन दंडिनां भांकारेण भेरीणां धणंधणेन निरसाणानां
धुंधुमितेन मद्दलानां जुंजुमितेन डिंडिमानां झंकारेण झर्झरीणां
घुंघुमितेन शंखानां कूजितेन वेणूनां कलकलेन काहलीनां शब्दाद्वैतमिव
जगतीं कुर्वाणः स नरदेवो नगरादतीत्य पदवीं गव्यूतिमात्रां
पुरुषोत्तमशंकया सेवासमागतयोरिव दुग्धाब्धितरंगयोः पार्श्वे
धोधूयमानयोस्समाह्वयतोरिव कृपाभरेण तस्य भगवतो व्यासयोगिनः
श्वेतचामरयोर्युगलं दूरादेवावलोकयामास । तुरंगमादवततार ।
पद्भ्यामेव संचरमाणः सुमेरुतटरुहेण सुपर्णाकारेण श्लक्ष्णपर्वणा
समुज्ज्वलद्भगवत्तेजःप्रपंचासहनतया दूरमपसृतेनोर्ध्वभूतेन मध्यमभागेन
वज्रोपलशकलस्थपुटितकुप्यशेखरितकोटिद्वयेन दंडेन परिशोभमानाया
दृढनियंत्रितरक्तपटपट्टवितानोपरिभागायाः कनकशिबिकायाः मध्यमध्या-
सीनं करतलोत्तानितपुस्तकविभागावलोकनजागरूकमनवरतचाल्यमान-
कुंचमंजसोपरिसरमतिनिबिडतया कृच्छ्रलभ्यमानपदावकाशया शरदंबुद-
विशदविशदोष्णीषसंव्यानवसनया फणितिविलासस्य भरनैपुणीं
याचमानयेव त्रिपथगया बहलया ब्रह्मपरंपरया सेव्यमानं
कलितमधुरस्वरगभीरिमतृणीकृतकिन्नाराणां गांधर्वनिगमपारावारपारदृश्व
नामुच्चावचां नारायणभुजापदानगाथामुच्चैरुद्गायतां विस्मयनीयानुभावं
तं भगवंतं व्यासयोगिनमपश्यत् । अमुष्य किल वाहनमादिभिक्षोरिव
समुद्वहंति शैबिकनिर्विशेषमवसरेषु स्मरणमात्रकृतसन्निधानानि विनमंति
महाभूतानि । अनेन खलु पुरा तीर्थपर्यटनेषु अधिकांतारमपहरतेत्युदित-
मात्रात्सविभ्रमाः कुंभीलका अपि दारुणा: प्रेष्या इव केवलं
तरुपल्लवानि चिरमुपाहरन् । अस्य ननु त्रिवासरोपवासश्रांतिजुषो
भगवान् बालगोपालः वत्सलतया सुहृज्जनस्येव रहसि साक्षादागत्य
सुधामंडलनिर्विशेषं नवनीतपिंडं हस्ते दधानः मणिमंजीरझंझलितमनो-
</p>
</page>