2026-01-24 15:17:25 by ambuda-bot
This page has not been fully proofread.
पञ्चमोल्लासः
55
यस्यास्समीपोपवनानि दृष्ट्वा
विसिष्मिये व्यासयतिर्महात्मा ॥
ततः नरसमहीपालः क्रमेण नगरोपकंठमागच्छंतमेनं भगवंतं
व्यासयोगिनं सचिवमुखादाकर्ण्य संबध्यमानकुतूहल: प्रत्युज्जिगमिषया
सराजलोकः सरभसमासनादुत्तस्थौ । तावदत्र संभ्रमैस्सज्जीकृत्य
करद्वयधृतखलीनगुणैरसकृत्क्रियमाणमृदुतरचपेटास्फालनस्सांत्वनैस्सा-
दिभिस्सपदि समुपनीतं चटुलतरखुरपुटतया जुगुप्समानभूतलस्पर्शं
वपुष्मंतमिव सुकृतराशिं वदनराजीवपराजिततया तुरंगभूयमंगीकृत्य
वोढुमागतमिव सारंगचिह्नं गंडोपलमिव कैलासशैलस्य न्यासीकृतरथ्या
मिवार्थस्य विजययात्रासमुत्थापितरजःपुंजपूरणचकितचकितेन दुग्धसाग-
रेणेवोपदीकृतमुन्नमितकर्णपल्लवमुन्मिषितहेषारवमुत्तुंगधवलतुरंगमधि-
रूढः किरीटतटघटितमुक्तामणिनिकरसमुत्पतितेनेव प्रभाचक्रवालेन
सितातपवारणेन संपादितच्छायः कमलकर्णिकाकर्णपूरेणेव राज्य-
लक्ष्म्याः कुंचेन कनकनालेन परिवीज्यमानस्सविधवर्तिभिर्विविधनटनला-
लनपरतंत्रघोटकधावनप्रकंपमानकर्णावतंसैराप्तैर्महाप्रधानैर्निबिडितपरिस-
रो विशालविमलोष्णीषकलितैरामुक्तकंचुकैराविष्कृतहारमणिनिष्कपरिपा-
कैरुद्गमितचलांचलभुजांचलैर्मागधैः पार्श्वे सहेलमुच्चैः पापठ्यमानविक्रम-
बिरुदमाकर्णयन् भुजारोपितनिखिलवसुमत्यतिवेलभारतया व्यपगतश्रमै-
स्सनृपनिकरैस्सेव्यमानो बहुभिः कुलगिरिभिर्विकटकरटिकटाहनिःसृतम-
दप्रवाहैः स्तंबेरमैरनुरुध्यमानः परिस्फुरत्तपनबिंबप्रतिफलनान्यपरोक्षितप्र-
तापज्वलनानीव विक्लवाधिधारयद्भिरायुधानि कालकवचनिचोलितस्कंधैरं-
बरसंचारलग्ननवमेघखंडैरिव चारणगणैरपरिमितैर्योधैः परिवेष्टयमानः
सततपरिचितपरिश्रमक्रीडनादतिमांसलितावयवैर्विचित्राणि मंडलवल-
यानि विस्तारयद्भिः किलकिलामुखरमुखैः फलकपाणिभिर्देदीप्यमानपु-