2026-01-24 16:08:52 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">54
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">हर्म्यावलीषु सह सारसलोचनाभि-
र्निद्राजुषां प्रतिविभातामधीश्वराणाम् ।
वातायनादुपगतो मरुदापन्गायाः
वैतालिको भवति सांद्रमरुत्किशोरः ॥
</p>
<verse lang="sa">अलंकृतानां हरिणेक्षणानां दिने दिने यत्र च दीप्रभासाम् ।
कपोलभागाः कलधौतकांताः परस्परं दर्पणतां भजंते॥
</verse>
<p lang="sa">यस्यां धरणीतलखचितमणिशिलाफलकानामुत्पतता दीप्तिपटलेन
सततमंबरपथेन संचरमाणयोः पुष्पवतोरवतरता रोचिषा च प्राणिनां
नित्यानामिव न कुत्रापि छाया दृश्यते । यत्र च निशि
सौधाग्रमणिकुट्टिमजुषो मुग्धवारहरिणीदृशोर्मार्गवशादासन्नानि तारकदंब-
कानि मौक्तिकधिया कुतूहलिन्यः करकमलेनादायादाय जंगमतया
सभीति ससंभ्रमं प्रतिमुंचंति । यत्र च रमणीनां चरणतलरागपराकृतराम-
णीयकभरैर्मित्रकरामर्शाश्वासितैरपि विदलितहृदयैरनवरतं सरोगैर्हीयते
सरोरुहनिवहैः ।
</p>
<verse lang="sa">यत्रांगनानां लपनार्थितश्रीर्निरुद्धमंदस्मितकौमुदीकः ।
विभावरीशोऽपि
सृजत्यजस्रं प्रालेयलक्ष्येण सबाष्पधाराम् ॥
</verse>
<verse>लीलागतैर्यत्र विलासिनीनां प्रावीण्यसिध्यै बहुशोऽनुनीय ।
स्वजातिभिश्चोदित एव कचिह्माणमद्यापि बिभर्ति हंसः ॥
</verse>
<verse lang="sa">इतस्ततस्संचरतां जनानां रथ्यासु यस्यां बहुलक्षपासु ।
वितर्दिकास्तंभमणीमयूखः करोति नित्यं करदीपकृत्यम् ॥
</verse>
<verse lang="sa" merge-next="true">मंदारसौरभ्यमनोहराणि
संक्रंदनारामसहोदराणि ।
</verse>
</page>