2026-01-24 15:17:25 by ambuda-bot
This page has not been fully proofread.
54
श्रीव्यासयोगिचरितम्
हर्म्यावलीषु सह सारसलोचनाभि-
र्निद्राजुषां प्रतिविभातामधीश्वराणाम् ।
वातायनादुपगतो मरुदापन्गायाः
वैतालिको भवति सांद्रमरुत्किशोरः ॥
अलंकृतानां हरिणेक्षणानां दिने दिने यत्र च दीप्रभासाम् ।
कपोलभागाः कलधौतकांताः परस्परं दर्पणतां भजंते॥
यस्यां धरणीतलखचितमणिशिलाफलकानामुत्पतता दीप्तिपटलेन
सततमंबरपथेन संचरमाणयोः पुष्पवतोरवतरता रोचिषा च प्राणिनां
नित्यानामिव न कुत्रापि छाया दृश्यते । यत्र च निशि
सौधाग्रमणिकुट्टिमजुषो मुग्धवारहरिणीदृशोर्मार्गवशादासन्नानि तारकदंब-
कानि मौक्तिकधिया कुतूहलिन्यः करकमलेनादायादाय जंगमतया
सभीति ससंभ्रमं प्रतिमुंचंति । यत्र च रमणीनां चरणतलरागपराकृतराम-
णीयकभरैर्मित्रकरामर्शाश्वासितैरपि विदलितहृदयैरनवरतं सरोगैर्हीयते
सरोरुहनिवहैः ।
यत्रांगनानां लपनार्थितश्रीर्निरुद्धमंदस्मितकौमुदीकः ।
विभावरीशोऽपि
सृजत्यजस्रं प्रालेयलक्ष्येण सबाष्पधाराम् ॥
लीलागतैर्यत्र विलासिनीनां प्रावीण्यसिध्यै बहुशोऽनुनीय ।
स्वजातिभिश्चोदित एव कचिह्माणमद्यापि बिभर्ति हंसः ॥
इतस्ततस्संचरतां जनानां रथ्यासु यस्यां बहुलक्षपासु ।
वितर्दिकास्तंभमणीमयूखः करोति नित्यं करदीपकृत्यम् ॥
मंदारसौरभ्यमनोहराणि
संक्रंदनारामसहोदराणि ।