2026-01-24 15:17:24 by ambuda-bot
This page has not been fully proofread.
पञ्चमोल्लासः
॥ पञ्चमोल्लासः ॥
अथ नरसभूपालस्याप्तैरमात्यमदावलैस्स यतिवृषभश्शश्वत्संप्रार्थ्य
माननिजागमः भुजगनगरीं भूमिं भित्वोपरीव समुत्थितां विपुलवीथिकां
हृद्यां विद्यापुरीं समुपागमत् ।
स्वेन गाढमुपगूहमानया पंपयोपरि लुठत्तरंगया ।
या विडंबयति जंभभेदिनस्स्वर्धुनीलहरिभूषितां पुरीम् ॥
वाराशेस्सुतयाऽनिशं सुरभितं वक्षः प्रदेशं वह-
न्मंदीकुर्वदभंगुरांगमहसा वालाहिकीदुर्मदम् ।
उद्दामां शुभसंपदं निजजुषामुल्लोलकल्लोलय-
तेजो यत्र परात्परं विजयते श्रीविट्ठलेशाभिधम् ॥
चलदूंगावीचीकलकलितसौभाग्यभरितं
विहायस्वं यस्यां विपुलमपि कैलाससदनम् ।
स हेतोः कस्माद्वा सकलजगदीशोऽपि भगवान्
विरूपाक्षः साक्षाद्विशदयति साम्राज्यपदवीम् ॥
या तुंगस्थिरभर्मगोपुरांतराळ-
प्रत्युप्तस्फुटबहुमौक्तिकावलीनाम् ।
भूयिष्ठैर्बहिरभिसारिभिर्मयूखैः
कौबेरीं हसति पुरीमिव प्रकामम् ॥
यस्यामुदारनृपमंदिरचंद्रशाला-
वातायने दरपरिक्रमगाढलग्नाम् ।
दीपाग्रधूममषिकां शिशिरांशुबिंबे
मोहात्कुरंग इति मूर्खधियो वदंति ॥
53