2026-01-24 15:17:24 by ambuda-bot
This page has not been fully proofread.
52
श्रीव्यासयोगिचरितम्
शुकपोतपक्षतिसुषुमावंचकानां नवमणिकिरणजागरणमांसलितफलफल्य-
तृणीकृतचिरंतनमानस्य चतुरंतमानस्य शरदुदयनिर्णेजितकौमुदीपूलिका-
सुकुमारयोर्धवलचामरयोर्बहुलरागप्रकटनविपञ्चिकायाः
कुंचिकाया
निस्सीमप्राभवदात्रीणां कनकपात्रीणामगणनीयगुणग्रामाणां ग्रामाणाम-
नवरतमतिथिजनपूजनकर्मठानामितरेषामपि बह्वीयसां वस्तूनां निचयम-
दात् । तस्मिंश्च विनीतवति विशेषादार्ये प्रयुज्य कुशलगर्भितामाशिषमंबुधे-
रिव ततो राजभवनात्कालमेघ इव स भगवान् वर्षेणेव कलापिन
इव कलाविदस्संमोदयन् गिरितटमिव मठालयमध्यतिष्ठत् ।
जित्वैवमेव बहुधा परिपंथिवर्गं
प्रोद्दामकीर्तिनिबिडोरुनभः कटाहः ।
संस्थापयन् सकलधर्मकुलं यतींद्र-
स्तत्रावसत् सबहुलाश्शरदः सुखेन ॥
ततस्स नरसिंहभूपतिः अपरमिव मारं कुमारं समग्रगुणं
तं मारायनामानमधिराज्ये समभिषिच्य कालपरिणामेन जेतुमिव
विक्रमेण शक्रं द्राघीयसा शुभचरितसोपानपथेन दिवमध्यरुक्षत् ।
तमपि स भगवान्याय्येन पथा संचरमाणं प्रचण्डरिपुमण्डलविहरणशमित
दोर्दण्डचण्डिमकण्डूविशेषं कोविदकुलसेवनकुतूहलिनं गुरुरिव कुलिश
पाणिं क्ष्मापतिमनुगृण्हन् तरंगिणीमिव राजहंसो मारुतमिव
मलयमेखलातरलमणिरिव हारलतां शशांक इव शङ्करमुकुटं, तां
पुरीं चिरादलमकरोत् ॥
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते चतुर्थोल्लासः ॥