This page has not been fully proofread.

चतुर्थोल्लासः
 
51
 
हमिकया विवादयिषमाणाः खरतरगर्वाः सर्वे भट्टमुख्यास्सर्वे दुर्वादिनो
मनीषिणा भगवता तेन तपस्विना व्यासयोगिना प्रसंगादिव स्वयमेव
महतीं जल्पकथामारभंत। तत्र प्रथमं नियंत्रिते निरूपणीये समुपजाते
वादिप्रतिवादिनिर्धारणे कल्पितेषु समुचितगुणसमग्रेषु विषमसंख्यानेषु
सभ्येषु संभृते समस्तसंमते महत्यनुविधेये स्थापिते लिपिकरव्यवहृतिमुखे
लेखके समाबद्धायां सकलनिग्रहोच्चारणसंधायां निदर्शनप्रयुक्तानुसाधका-
नुमानचमत्कृतौ कण्टकोद्धारणे अभ्युपगतायां वीप्सायामुपनयनिगमन-
योस्तथा तथेति निर्देशे सर्वनामानुवादने सिद्धसाध्यप्रयोजकानां
स्वशब्देन स्पुटभूतहेत्वाभासपदेन वा समुद्भवत्स्वपि मतभेदेषु
मणिकारमतमनूद्य विरचिते समयबंधे।
 
तदनंतरम्—
 
इतरेतरमुच्चयुक्तिभारास्तरसोपर्युपरि प्रकृष्टहर्षाः ।
 
कथतामभवन् गतास्तदानीमुभयेषामपि वासरा दशाष्टौ ॥
 
सद्यो युक्तिपरंपरैः प्रतिभटान् वाग्गुंभकोलाहलै
 
र्जित्वा व्यासमुनिस्सखेलमखिलान् मध्येमहीभृत्सभम्।
पाठांते बिरुदाक्षरावलिमिव व्यक्तं लिखन्निग्रहं
तानेवाकृत तुंगजंगमजयस्तंभान् व्यथाकीलितान् ॥
 
समीक्ष्य तं तत्र नृपो विलक्षः
 
प्राबुध्यत त्रीणि मुखानि मुक्त्वा ।
भुवं गतं तादृशमेव तेजो
 
वाग्देवताप्रेमकलारसज्ञम् ॥
 
तदानीमेव प्रहृष्टमना वसुमतीपतिरष्टापदरसलिखितबहुविधबिंबाडं-
बराणां वसनानां संफुल्लहल्लकदलतल्लजसमुल्लासिनीनां कुल्लायिकानां